०४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ यातु ’ इत्येकादशर्चं द्वितीयं सूक्तमाङ्गिरसस्य कृष्णस्यार्षमैन्द्रम् । आदितस्तिस्रस्त्रिष्टुभः । ततः षट् जगत्यः । ततो द्वे त्रिष्टुभौ । तथा चानुक्रान्तम् - ‘ आ यातु त्रित्रिष्टुबादि’ इति । आभिप्लविकेषूक्थ्येषु ब्राह्मणाच्छंसिनः स्तोमवृद्धाविदमावापार्थम् । सूत्रितं च- ‘ आ यात्विन्द्रः स्वपतिरिमां धियमिति ब्राह्मणाच्छंसी ’ ( आश्व. श्रौ. ७. ९) इति ॥

Jamison Brereton

44 (870)
Indra
Krṣ̥ ṇa Āṅgirasa
11 verses: triṣṭubh 1–3, jagatī 4–9, triṣṭubh 10–11
This last in the trio of Kr̥ṣṇa Āṅgirasa’s Indra hymns shares its final two verses (10–11) with the previous two hymns, though it otherwise has little in common with them. The hymn bristles with difficulties in the details, but its overall trajectory is clear: it is a journey hymn, inviting Indra to drive to our sacrifice (vss. 1–3) to take his place on the ritual ground and partake of our soma (vss. 4–5). The poet then contrasts evil-minded non-sacrificers with their generous counterparts (vss. 6–7). The poet gives a brief précis of the heroic deeds Indra accomplished in the past after drinking soma (vs. 8), and in verse 9 urges Indra to defeat the poet’s enemies, while making himself at home at the soma sacrifice.

01 आ यात्विन्द्रः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यातु इ᳓न्द्रः स्व᳓पतिर् म᳓दाय
यो᳓ ध᳓र्मणा तूतुजान᳓स् तु᳓विष्मान्
प्रत्वक्षाणो᳓ अ᳓ति वि᳓श्वा स᳓हांसि
अपारे᳓ण महता᳓ वृ᳓ष्णियेन

02 सुष्टामा रथः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुष्ठा᳓मा र᳓थः सुय᳓मा ह᳓री ते
मिम्य᳓क्ष व᳓ज्रो नृपते ग᳓भस्तौ
शी᳓भं राजन् सुप᳓था᳓ याहि अर्वा᳓ङ्
व᳓र्धाम ते पपु᳓षो वृ᳓ष्णियानि

03 एन्द्रवाहो नृपतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓न्द्रवा᳓हो नृप᳓तिं व᳓ज्रबाहुम्
उग्र᳓म् उग्रा᳓सस् तविषा᳓स एनम्
प्र᳓त्वक्षसं वृषभं᳓ सत्य᳓शुष्मम्
ए᳓म् अस्मत्रा᳓ सधमा᳓दो वहन्तु

04 एवा पतिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ प᳓तिं द्रोणसा᳓चं स᳓चेतसम्
ऊर्ज᳓ स्कम्भं᳓ धरु᳓ण आ᳓ वृषायसे
ओ᳓जः कृष्व सं᳓ गृभाय तुवे᳓ अ᳓पि
अ᳓सो य᳓था केनिपा᳓नाम् इनो᳓ वृधे᳓

05 गमन्नस्मे वसून्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ग᳓मन्न् अस्मे᳓ व᳓सूनि आ᳓ हि᳓ शं᳓सिषं
सुआशि᳓षम् भ᳓रम् आ᳓ याहि सोमि᳓नः
त्व᳓म् ईशिषे सा᳓स्मि᳓न् आ᳓ सत्सि बर्हि᳓षि
अनाधृष्या᳓ त᳓व पा᳓त्राणि ध᳓र्मणा

06 पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पृ᳓थक् प्रा᳓यन् प्रथमा᳓ देव᳓हूतयो
अ᳓कृण्वत श्रवसि᳓यानि दुष्ट᳓रा
न᳓ ये᳓ शेकु᳓र् यज्ञि᳓यां ना᳓वम् आरु᳓हम्
ईर्मइ᳓व᳓ ते᳓ नि᳓ अविशन्त के᳓पयः

07 एवैवापागपरे सन्तु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एवइ᳓वा᳓पाग् अ᳓परे सन्तु दूढियो᳓
अ᳓श्वा ये᳓षां दुर्यु᳓ज आयुयुज्रे᳓
इत्था᳓ ये᳓ प्रा᳓ग् उ᳓परे स᳓न्ति दाव᳓ने
पुरू᳓णि य᳓त्र वयु᳓नानि भो᳓जना

08 गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

गिरीँ᳓र् अ᳓ज्रान् रे᳓जमानाँ अधारयद्
दियउः᳓ क्रन्दद् अन्त᳓रिक्षाणि कोपयत्
समीचीने᳓ धिष᳓णे वि᳓ ष्कभायति
वृ᳓ष्णः पीत्वा᳓ म᳓द उक्था᳓नि शंसति

09 इमं बिभर्मि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इम᳓म् बिभर्मि सु᳓कृतं ते अङ्कुशं᳓
ये᳓नारुजा᳓सि मघवञ् छफारु᳓जः
अस्मि᳓न् सु᳓ ते स᳓वने अस्तु ओकि᳓यं
सुत᳓ इष्टउ᳓ मघवन् बोधि आ᳓भगः

10 गोभिष्थरेमामतिं दुरेवाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...
१० गोभिष्टरेमामतिं दुरेवां ...{Loading}...

गो᳓भिष् टरेम अ᳓मतिं दुरे᳓वां
य᳓वेन क्षु᳓धम् पुरुहूत वि᳓श्वाम्
वयं᳓ रा᳓जभिः प्रथमा᳓ ध᳓नानि
अस्मा᳓केन वृज᳓नेना जयेम

11 बृहस्पतिर्नः परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...