०४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अस्तेव’ इत्येकादशर्च त्रयोदशं सूक्तमाङ्गिरसस्य कृष्णाख्यस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च – अस्तेवैकादश कृष्णः’ इति । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धाविदं सूक्तं ब्राह्मणाच्छंसिन आवापार्थम् । सूत्रितं च – यज्ञे दिव इति सूक्ते अस्तेव सु प्रतरम्’ (आश्व. श्रौ. ७. ९ ) इति ॥

Jamison Brereton

42 (868)
Indra
Krṣ̥ na Āṅgirasa
11 verses: triṣṭubh
The usual mutually beneficial relationship between Indra, giver of bounties and aid in battle, and the singer/sacrificer offering poems and oblations in exchange is the theme of this hymn. However, the hymn is scarcely run-of-the-mill, for the poet has captured the relationship in a series of deftly fashioned images, and the balance between giving god and offering mortals is maintained throughout.

01 अस्तेव सु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्तेव सु᳓ प्रतरं᳓ ला᳓यम् अ᳓स्यन्
भू᳓षन्न् इव प्र᳓ भरा स्तो᳓मम् अस्मै
वाचा᳓ विप्रास् तरत वा᳓चम् अर्यो᳓
नि᳓ रामय जरितः सो᳓म इ᳓न्द्रम्

02 दोहेन गामुप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दो᳓हेन गा᳓म् उ᳓प शिक्षा स᳓खायम्
प्र᳓ बोधय जरितर् जार᳓म् इ᳓न्द्रम्
को᳓शं न᳓ पूर्णं᳓ व᳓सुना नि᳓ऋष्टम्
आ᳓ च्यावय मघदे᳓याय शू᳓रम्

03 किमङ्ग त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कि᳓म् अङ्ग᳓ त्वा मघवन् भोज᳓म् आहुः
शिशीहि᳓ मा शिशयं᳓ त्वा शृणोमि
अ᳓प्नस्वती म᳓म धी᳓र् अस्तु शक्र
वसुवि᳓दम् भ᳓गम् इन्द्रा᳓ भरा नः

04 त्वां जना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ ज᳓ना ममसत्ये᳓षु इन्द्र
संतस्थाना᳓ वि᳓ ह्वयन्ते समीके᳓
अ᳓त्रा यु᳓जं कृणुते यो᳓ हवि᳓ष्मान्
ना᳓सुन्वता सखियं᳓ वष्टि शू᳓रः

05 धनं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ध᳓नं न᳓ स्यन्द्र᳓म् बहुलं᳓ यो᳓ अस्मै
तीव्रा᳓न् सो᳓माँ आसुनो᳓ति प्र᳓यस्वान्
त᳓स्मै श᳓त्रून् सुतु᳓कान् प्रात᳓र् अ᳓ह्नो
नि᳓ सुअ᳓ष्ट्रान् युव᳓ति ह᳓न्ति वृत्र᳓म्

06 यस्मिन्वयं दधिमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्मिन् वयं᳓ दधिमा᳓ शं᳓सम् इ᳓न्द्रे
यः᳓ शिश्रा᳓य मघ᳓वा का᳓मम् अस्मे᳓
आरा᳓च् चित् स᳓न् भयताम् अस्य श᳓त्रुर्
नि᳓ अस्मै द्युम्ना᳓ ज᳓निया नमन्ताम्

07 आराच्छत्रुमप बाधस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आरा᳓च् छ᳓त्रुम् अ᳓प बाधस्व दूर᳓म्
उग्रो᳓ यः᳓ श᳓म्बः पुरुहूत ते᳓न
अस्मे᳓ धेहि य᳓वमद् गो᳓मद् इन्द्र
कृधी᳓ धि᳓यं जरित्रे᳓ वा᳓जरत्नाम्

08 प्र यमन्तवृड़्षसवासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ य᳓म् अन्त᳓र् वृषसवा᳓सो अ᳓ग्मन्
तीव्राः᳓ सो᳓मा बहुला᳓न्तास इ᳓न्द्रम्
ना᳓ह दामा᳓नम् मघ᳓वा नि᳓ यंसन्
नि᳓ सुन्वते᳓ वहति भू᳓रि वाम᳓म्

09 उत प्रहामतिदीव्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ प्रहा᳓म् अतिदी᳓व्या जयाति
कृतं᳓ य᳓च् छ्वघ्नी᳓ विचिनो᳓ति काले᳓
यो᳓ देव᳓कामो न᳓ ध᳓ना रुणद्धि
स᳓म् इ᳓त् तं᳓ राया᳓ सृजति स्वधा᳓वान्

10 गोभिष्थरेमामतिं दुरेवाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गो᳓भिष् टरेम अ᳓मतिं दुरे᳓वां
य᳓वेन क्षु᳓धम् पुरुहूत वि᳓श्वाम्
वयं᳓ रा᳓जभिः प्रथमा᳓ ध᳓नानि
अस्मा᳓केन वृज᳓नेना जयेम

11 बृहस्पतिर्नः परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृ᳓हस्प᳓तिर् नः प᳓रि पातु पश्चा᳓द्
उतो᳓त्तरस्माद् अ᳓धराद् अघायोः᳓
इ᳓न्द्रः पुर᳓स्ताद् उत᳓ मध्यतो᳓ नः
स᳓खा स᳓खिभ्यो व᳓रिवः कृणोतु