०४१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘समानम्’ इति तृचं द्वादशं सूक्तं घोषायाः पुत्रस्य सुहस्त्यस्यार्षं जागतमाश्विनम् । अनुक्रान्तं च - समानं तृचं सुहस्त्यो घौषेयः’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

41 (867)
Aśvins
Suhastya Ghauṣeya
3 verses: jagatī
As we already noted in the introduction to this group of hymns, this brief appendix is a conventional journey hymn. Nothing in this hymn, save the treatment of the chariot in verse 1, makes its relationship to the two preceding Ghoṣā hymns evident. The poet is identified as a son of Ghoṣā by the metronymic Ghauṣeya; his first name, Suhastya “Good-handed,” is extracted from verse 3.

01 समानमु त्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

समान᳓म् उ त्य᳓म् पुरुहूत᳓म् उक्थि᳓यं
र᳓थं त्रिचक्रं᳓ स᳓वना ग᳓निग्मतम्
प᳓रिज्मानं विदथि᳓यं सुवृक्ति᳓भिर्
वयं᳓ वि᳓उष्टा उष᳓सो हवामहे

02 प्रातर्युजं नासत्याधि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातर्यु᳓जं नासत्या अ᳓धि तिष्ठथः
प्रातर्या᳓वाणम् मधुवा᳓हनं र᳓थम्
वि᳓शो ये᳓न ग᳓छथो य᳓ज्वरीर् नरा
कीरे᳓श् चिद् यज्ञं᳓ हो᳓तृमन्तम् अश्विना

03 अध्वर्युं वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अध्वर्युं᳓ वा म᳓धुपाणिं सुह᳓स्तियम्
अग्नि᳓धं वा धृत᳓दक्षं द᳓मूनसम्
वि᳓प्रस्य वा य᳓त् स᳓वनानि ग᳓छथो
अ᳓त आ᳓ यातम् मधुपे᳓यम् अश्विना