०३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

नमो मित्रस्य ’ इति द्वादशर्चमष्टमं सूक्तम् । अभितपा नाम सूर्यपुत्र ऋषिः । इदमादीनि पञ्च सूक्तानि जागतानि । अस्य सूक्तस्य दशमी त्रिष्टुप् । सूर्यो देवता । तथा चानुकान्तं – नमो द्वादश सौर्योऽभितपाः सौर्यं जागर्त वै त्रिष्टुब्दशमी ’ इति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्यकाण्ड एतत्सूक्तम् । सूत्रितं च — चित्रं देवानां नमो मित्रस्य ’ (आश्व. श्रौ. ६. ५) इति । विषुवति निष्केवल्य आद्यस्तृचोऽनुरूपः । सूत्रितं च – विभ्राड्बृहत्पिबतु सौम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ ’ ( आश्व. श्रौ. ८. ६ ) इति । स्वपन्तमभ्यस्तमये सति रात्रिशेषं स्थित्वा प्रातः ‘ येन सूर्यं ज्योतिषा’ इत्यादिभिः पञ्चभिः सूर्यं उपस्थेयः । सूत्रितं च — अव्याधित चेत्स्वपन्तमादित्योऽभ्यस्तमियाद्वाग्यतोऽनुपविशन् रात्रिशेषं भूत्वा येन सूर्यं ज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ’ (आश्. गृ. ३.७.१ )। स्वपन्तमभ्युदिते ’ यस्य ते विश्वा ’ इत्यादिभिश्चतसृभिः सूर्य उपस्थेयः । सूत्रितं च –अभ्युदियाच्चेदकर्मश्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तराभिश्चतसृभिरुपस्थानम् ’ ( आश्व. गृ. ३, ७, २ ) इति । एकादशिनस्य सौर्यस्य पशोर्हविषी याज्या। सूत्रितं च — शं नो भव चक्षसा शं नो अह्ना वायो भूष शुचिपाः’ (आश्व. श्रौ. ३. ८) इति । होत्रकाणां शकलाधाने “ यद्वो देवाः ’ इत्येषा ( आश्व. श्रौ. ६, १२ )। विवाहे कन्यारोदनीये ‘ जीवं रुदन्ती’ इत्येषा जप्या ( आश्व. गृ. १, ८, ४ ) ॥

Jamison Brereton

37 (863)
Sūrya
Abhitapas Saurya
12 verses: jagatī, except triṣṭubh 10
Some of the themes sketched in X.35 are developed in this hymn into a more satis fyingly shaped composition. Though the hymns are not ascribed to the same poet,

the name of the supposed author of X.37, Abhitapas Saurya (“Scorching Heat, son of the Sun”), is an artificial one, derived from the hymn’s subject matter. In X.35 the daily rising of the sun, expressed as a brief truth formulation (X.35.8), was implicitly connected with the poet’s desire for “blamelessness” and for the protection of the Ādityas, but these themes were scattered through the hymn, which focused primarily on the early-morning sacrifice and the various gods associ ated with it. Here the Sun is primary, and his role as the eye of Mitra and Varuṇa, and thus as the observer of mortals’ guilt or blamelessness, is announced at the beginning (vs. 1a), and an expanded version of the truth formulation of X.35.8 is found in the second verse.
The benefits the Sun brings to us and the regularity of his return form the sub ject of the middle part of the hymn. The connection between our moral behavior and the Sun’s daily round is asserted again toward the end of the hymn (vs. 9), which concludes (vs. 12) with a general expiation for faults unwittingly committed and a scapegoating of our enemies.

01 नमो मित्रस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓मो मित्र᳓स्य व᳓रुणस्य च᳓क्षसे
महो᳓ देवा᳓य त᳓द् ऋतं᳓ सपर्यत
दूरेदृ᳓शे देव᳓जाताय केत᳓वे
दिव᳓स् पुत्रा᳓य सू᳓रियाय शंसत

02 सा मा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सा᳓ मा सत्यो᳓क्तिः प᳓रि पातु विश्व᳓तो
द्या᳓वा च य᳓त्र तत᳓नन्न् अ᳓हानि च
वि᳓श्वम् अन्य᳓न् नि᳓ विशते य᳓द् ए᳓जति
विश्वा᳓हा᳓पो विश्वा᳓हो᳓द् एति सू᳓रियः

03 न ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ ते अ᳓देवः प्रदि᳓वो नि᳓ वासते
य᳓द् एतशे᳓भिः पतरइ᳓ रथर्य᳓सि
प्राची᳓नम् अन्य᳓द् अ᳓नु वर्तते र᳓ज
उ᳓द् अन्ये᳓न ज्यो᳓तिषा यासि सूरिय

04 येन सूर्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓न सूर्य ज्यो᳓तिषा बा᳓धसे त᳓मो
ज᳓गच् च वि᳓श्वम् उदिय᳓र्षि भानु᳓ना
ते᳓नास्म᳓द् वि᳓श्वाम् अ᳓निराम् अ᳓नाहुतिम्
अ᳓पा᳓मीवाम् अ᳓प दुष्व᳓प्नियं सुव

05 विश्वस्य हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वस्य हि᳓ प्रे᳓षितो र᳓क्षसि व्रत᳓म्
अ᳓हेळयन्न् उच्च᳓रसि स्वधा᳓ अ᳓नु
य᳓द् अद्य᳓ त्वा सूर्य उपब्र᳓वामहै
तं᳓ नो देवा᳓ अ᳓नु मंसीरत क्र᳓तुम्

06 तं नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ नो द्या᳓वापृथिवी᳓ त᳓न् न आ᳓प
इ᳓न्द्रः शृण्वन्तु मरु᳓तो ह᳓वं व᳓चः
मा᳓ शू᳓ने भूम सू᳓रियस्य संदृ᳓शि
भद्रं᳓ जी᳓वन्तो जरणा᳓म् अशीमहि

07 विश्वाहा त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा᳓हा त्वा सुम᳓नसः सुच᳓क्षसः
प्रजा᳓वन्तो अनमीवा᳓ अ᳓नागसः
उद्य᳓न्तं त्वा मित्रमहो दिवे᳓-दिवे
जियो᳓ग् जीवाः᳓ प्र᳓ति पश्येम सूरिय

08 महि ज्योतिर्बिभ्रतम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓हि ज्यो᳓तिर् बि᳓भ्रतं त्वा विचक्षण
भा᳐᳓स्वन्तं च᳓क्षुषे-चक्षुषे म᳓यः
आरो᳓हन्तम् बृहतः᳓ पा᳓जसस् प᳓रि
वयं᳓ जीवाः᳓ प्र᳓ति पश्येम सूरिय

09 यस्य ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य ते वि᳓श्वा भु᳓वनानि केतु᳓ना
प्र᳓ चे᳓रते नि᳓ च विश᳓न्ते अक्तु᳓भिः
अनागास्त्वे᳓न हरिकेश सूरिय
अ᳓ह्नाह्ना नो व᳓स्यसा-वस्यसो᳓द् इहि

10 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं᳓ नो भव च᳓क्षसा शं᳓ नो अ᳓ह्ना
श᳓म् भानु᳓ना शं᳓ हिमा᳓ शं᳓ घृणे᳓न
य᳓था श᳓म् अ᳓ध्वञ् छ᳓म् अ᳓सद् दुरोणे᳓
त᳓त् सूरिय द्र᳓विणं धेहि चित्र᳓म्

11 अस्माकं देवा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कं देवा उभ᳓याय ज᳓न्मने
श᳓र्म यछत द्विप᳓दे च᳓तुष्पदे
अद᳓त् पि᳓बद् ऊर्ज᳓यमानम् आ᳓शितं
त᳓द् अस्मे᳓ शं᳓ यो᳓र् अरपो᳓ दधातन

12 यद्वो देवाश्चकृम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वो देवाश् चकृम᳓ जिह्व᳓या गुरु᳓
म᳓नसो वा प्र᳓युती देवहे᳓ळनम्
अ᳓रावा यो᳓ नो अभि᳓ दुछुनाय᳓ते
त᳓स्मिन् त᳓द् ए᳓नो वसवो नि᳓ धेतन