०३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘उषासानक्ता’ इति चतुर्दशर्चं सप्तमं सूक्त धानाकस्य लुशस्यार्षम् । आदितो द्वादश जगत्यस्ततो द्वे त्रिष्टुभौ । विश्वे देवा देवता । पूर्व सूक्ते ‘ वैश्वदेवं तु द्वित्रिष्टुबन्तं तु ’ इत्युक्तत्वात् । ‘ उषासानक्ता ’ इत्यनुक्रान्तम् । आभिप्लविके षष्ठेऽहनि वैश्वदेव इदं वैश्वदेवनिविद्धानम् । सूत्रितं च – कतरा पूर्वोषासानक्तेति वैश्वदेवम्’ (आश्व. श्रौ. ७. ७) इति ॥

Jamison Brereton

36 (862)
All Gods
Luśa Dhānāka
14 verses: jagatī, except triṣṭubh 13–14
This hymn is a clear companion piece to the preceding one, X.35. Both hymns con sist of fourteen verses, all jagatī except the last two in triṣṭubh. Both have a refrain, and the refrain of X.36 (vss. 2–12) is a minor variant of the last pāda of the first verse of X.35. And there is some shared vocabulary. However, X.36 is not tied closely to the morning sacrifice, as X.35 is. The range of gods invoked in X.36 is wider than those in X.35, although there is a distinct Ādityan cast here as well (see vss. 1, 3–4, 12–13). The hymn seems somewhat loosely and inattentively constructed.

01 उषासानक्ता बृहती - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उषा᳓सान᳓क्ता बृहती᳓ सुपे᳓शसा
द्या᳓वाक्षा᳓मा व᳓रुणो मित्रो᳓ अर्यमा᳓
इ᳓न्द्रं हुवे मरु᳓तः प᳓र्वताँ अप᳓
आदित्या᳓न् द्या᳓वापृथिवी᳓ अपः᳓ सु᳓वः

02 द्यौश्च नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दियउ᳓श् च नः पृथिवी᳓ च प्र᳓चेतस
ऋता᳓वरी रक्षताम् अं᳓हसो रिषः᳓
मा᳓ दुर्विद᳓त्रा नि᳓रृतिर् न ईशत
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

03 विश्वस्मान्नो अदितिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वस्मान् नो अ᳓दितिः पातु अं᳓हसो
माता᳓ मित्र᳓स्य व᳓रुणस्य रेव᳓तः
सु᳓वर्वज् ज्यो᳓तिर् अवृकं᳓ नशीमहि
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

04 ग्रावा वदन्नप - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रा᳓वा व᳓दन्न् अ᳓प र᳓क्षांसि सेधतु
दुष्व᳓प्नियं नि᳓रृतिं वि᳓श्वम् अत्रि᳓णम्
आदित्यं᳓ श᳓र्म मरु᳓ताम् अशीमहि
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

05 एन्द्रो बर्हिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓न्द्रो बर्हिः᳓ सी᳓दतु पि᳓न्वताम् इ᳓ळा
बृ᳓हस्प᳓तिः सा᳓मभिर् ऋक्वो᳓ अर्चतु
सुप्रकेतं᳓ जीव᳓से म᳓न्म धीमहि
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

06 दिविस्पृशं यज्ञमस्माकमश्विना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दिविस्पृ᳓शं यज्ञ᳓म् अस्मा᳓कम् अश्विना
जीरा᳓ध्वरं कृणुतं सुम्न᳓म् इष्ट᳓ये
प्राची᳓नरश्मिम् आ᳓हुतं घृते᳓न
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

07 उप ह्वये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प ह्वये सुह᳓वम् मा᳓रुतं गण᳓म्
पवाक᳓म्+ ऋष्वं᳓ सखिया᳓य शम्भु᳓वम्
राय᳓स् पो᳓षं सौश्रवसा᳓य धीमहि
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

08 अपां पेरुम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अपा᳓म् पे᳓रुं जीव᳓धन्यम् भरामहे
देवावि᳓यं सुह᳓वम् अध्वरश्रि᳓यम्
सुरश्मिं᳓ सो᳓मम् इन्द्रियं᳓ यमीमहि
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

09 सनेम तत्सुसनिता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सने᳓म त᳓त् सुसनि᳓ता सनि᳓त्वभिर्
वयं᳓ जीवा᳓ जीव᳓पुत्रा अ᳓नागसः
ब्रह्मद्वि᳓षो वि᳓ष्वग् ए᳓नो भरेरत
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

10 ये स्था - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ स्था᳓ म᳓नोर् यज्ञि᳓यास् ते᳓ शृणोतन
य᳓द् वो देवा ई᳓महे त᳓द् ददातन
जइ᳓त्रं क्र᳓तुं रयिम᳓द् वीर᳓वद् य᳓शस्
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

11 महदद्य महतामा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मह᳓द् अद्य᳓ महता᳓म् आ᳓ वृणीमहे
अ᳓वो देवा᳓नाम् बृहता᳓म् अनर्व᳓णाम्
य᳓था व᳓सु वीर᳓जातं न᳓शामहै
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

12 महो अग्नेः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

महो᳓ अग्नेः᳓ समिधान᳓स्य श᳓र्मणि
अ᳓नागा मित्रे᳓ व᳓रुणे सुअस्त᳓ये
श्रे᳓ष्ठे सियाम सवितुः᳓ स᳓वीमनि
त᳓द् देवा᳓नाम् अ᳓वो अद्या᳓ वृणीमहे

13 ये सवितुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ सवितुः᳓ सत्य᳓सवस्य वि᳓श्वे
मित्र᳓स्य व्रते᳓ व᳓रुणस्य देवाः᳓
ते᳓ सउ᳓भगं वीर᳓वद् गो᳓मद् अ᳓प्नो
द᳓धातन द्र᳓विणं चित्र᳓म् अस्मे᳓

14 सविता पश्चातात्सविता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सविता᳓ पश्चा᳓तात् सविता᳓ पुर᳓स्तात्
सवितो᳓त्तरा᳓त्तात् सविता᳓धरा᳓त्तात्
सविता᳓ नः सुवतु सर्व᳓तातिं
सविता᳓ नो रासतां दीर्घ᳓म् आ᳓युः