०३३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथाष्टमोऽध्याय आरभ्यते । तत्र ‘प्र मा ’ इति नवर्चं चतुर्थं सूक्तमैलूषस्य कवषस्यार्षम् । आद्या त्रिष्टुप् सा च वैश्वदेवी। द्वितीयातृतीये बृहतीसतोबृहत्यौ ऐन्द्र्यौ। पराः षड्गायत्र्यः । ‘कुरुश्रवणमावृणि ’ इति द्वाभ्यां त्रसदस्युपुत्रस्य कुरुश्रवणनाम्नो राज्ञो दानं तुष्टात् । अतस्तद्देवताके । अथ ’ यस्य प्रस्वादसः’ इत्यादिभिश्चतसृभिर्मित्रातिथिनाम्नि राज्ञि परलोकं गते शोकाभिभूतं तस्य पुत्रमुपश्रवोनामानं कवष ऋषिः स्नेहवशादभिगत्य, विगतशोकमकरोत् । अतस्तासां तद्देवतात्वम् । तथा चानुक्रान्तं– प्र माया वैश्वदेव्यैन्द्रः प्रगाथः परा गायत्र्यो द्वे कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः पराभिर्मृते मित्रातिथौ राज्ञि तत्स्नेहादृषिरुपमश्रवसं पुत्रमस्य व्यशोकयत्’ इति । गतो विनियोगः ॥

Jamison Brereton

33 (859)
Lament of a Singer [Anukramaṇı: All Gods 1, Indra ̄ 2–3, Dānastuti of Kurusravan ́ ̣a Trāsadasyava 4–5, Upamasravas ́ Mitrātithiputra 6–9]
Kavaṣa Ailūṣa
9 verses: triṣṭubh 1, br̥hatī 2, satobr̥hatī 3, gāyatrī 4–9
A poignant yet proud 1st-person lament of a poet whose patron has died, the hymn also serves as a sort of job application to his erstwhile patron’s son. The progress of the poem is marked by changes in meter. In the first verse the poet remembers his for mer privileged position and, in its last pāda, the sudden advent of disaster. The next two verses (a pragātha) describes his present miserable state (in terms found also in part in I.105.8) and begs Indra for help. In the last six verses, in gāyatrī, the poet first recalls how he “chose” (a telling expression) his former patron Kuruśravaṇa (vss. 4–6). He then introduces himself to the son, Upamaśravas (vs. 7), but returns in the final two verses (8–9) to his helpless sorrow over the death of his patron and companion.

01 प्र मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ मा युयुज्रे प्रयु᳓जो ज᳓नानां
व᳓हामि स्म पूष᳓णम् अ᳓न्तरेण
वि᳓श्वे देवा᳓सो अ᳓ध मा᳓म् अरक्षन्
दुःशा᳓सुर् आ᳓गाद् इ᳓ति घो᳓ष आसीत्

02 सं मा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् मा तपन्ति अभि᳓तः
सप᳓त्नीर् इव प᳓र्शवः
नि᳓ बाधते अ᳓मतिर् नग्न᳓ता ज᳓सुर्
वे᳓र् न᳓ वेवीयते मतिः᳓

03 मूषो न - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मू᳓षो न᳓ शिश्ना᳓ वि᳓ अदन्ति माधि᳓य
स्तोता᳓रं ते शतक्रतो
सकृ᳓त् सु᳓ नो मघवन्न् इन्द्र मॄळय+
अ᳓धा पिते᳓व नो भव

04 कुरुश्रवणमावृणि राजानम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कुरुश्र᳓वणम् आवृणि
रा᳓जानं त्रा᳓सदस्यवम्
मं᳓हिष्ठं वाघ᳓ताम् ऋ᳓षिः

05 यस्य मा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य मा हरि᳓तो र᳓थे
तिस्रो᳓ व᳓हन्ति साधुया᳓
स्त᳓वै सह᳓स्रदक्षिणे

06 यस्य प्रस्वादसो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य प्र᳓स्वादसो गि᳓र
उपम᳓श्रवसः पितुः᳓
क्षे᳓त्रं न᳓ रण्व᳓म् ऊचु᳓षे

07 अधि पुत्रोपमश्रवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि पुत्रोपमश्रवो
न᳓पान् मित्रातिथेर् इहि
पितु᳓ष् टे अस्मि वन्दिता᳓

08 यदीशीयामृतानामुत वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् ई᳓शीयामृ᳓ताना᳐म्
उत᳓ वा म᳓र्तियाना᳐म्
जी᳓वेद् इ᳓न् मघ᳓वा म᳓म

09 न देवानामति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ देवा᳓नाम् अ᳓ति व्रतं᳓
शता᳓त्मा चन᳓ जीवति
त᳓था युजा᳓ वि᳓ वावृते