०३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तृतीयेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘प्र देवत्रा’ इति पञ्चदशर्चं प्रथम सूक्तम् । इलूषपुत्रस्य कवषस्यार्षं त्रैष्टुभमब्देवत्यमपांनपाद्देवताकं वा । तथा चानुक्रान्तं— प्र देवत्रा पञ्चोना कवष ऐलूष आपमपोनप्त्रीयं वा’ इति । ‘अप इष्य होत:’ इत्युक्तः सन् होता ‘प्र देवत्रा’ इत्याद्या नवर्चोऽनुब्रूयात् । सूत्रितं च—’प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोता नो अध्वरं देवयज्येति दशमीम् ’ ( आश्व. श्रौ. ५. १ ) इति ।।

Jamison Brereton

30 (856)
Waters or Apām Napāt
Kavaṣa Ailūṣa
15 verses: triṣṭubh
This hymn is very ritually determined, and in fact it tracks closely the ritual acts performed in the classical śrauta ritual at its recitation in the soma sacrifice. In verses 1–3 the Adhvaryu priests are sent to fetch water for the soma-pressing, but first make an offering to the waters and the Child of the Waters (Apām Napāt). The Adhvaryus then bring the waters to the sacrificial ground (vss. 4–9), with a reminder that they (the waters) owe a favor to Indra, the principal drinker of soma, because he freed them (vs. 7). More praise of the waters follows (vss. 10–12) as they approach the place of sacrifice. They arrive in verses 13–14, and the pressing can begin in verse 15.
The feminine and enthusiastically yielding nature of the waters (the stem áp being feminine in gender) and their relationship to various masculine forces, the Adhvaryus (vs. 2), Soma (vss. 5–6), and the gods (vs. 15), are also emphasized.

01 प्र देवत्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ देवत्रा᳓ ब्र᳓ह्मणे गातु᳓र् एतु
अपो᳓ अ᳓छा म᳓नसो न᳓ प्र᳓युक्ति
मही᳓म् मित्र᳓स्य व᳓रुणस्य धासि᳓म्
पृथुज्र᳓यसे रीरधा सुवृक्ति᳓म्

02 अध्वर्यवो हविष्मन्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो हवि᳓ष्मन्तो हि᳓ भूत᳓
अ᳓छ अप᳓ इतोशती᳓र् उशन्तः
अ᳓व या᳓श् च᳓ष्टे अरुणः᳓ सुपर्ण᳓स्
त᳓म् आ᳓स्यध्वम् ऊर्मि᳓म् अद्या᳓ सुहस्ताः

03 अध्वर्यवोऽप इता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवो अप᳓ इता समुद्र᳓म्
अपां᳓ न᳓पातं हवि᳓षा यजध्वम्
स᳓ वो ददद् ऊर्मि᳓म् अद्या᳓ सु᳓पूतं
त᳓स्मै सो᳓मम् म᳓धुमन्तं सुनोत

04 यो अनिध्मो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अनिध्मो᳓ दी᳓दयद् अप्सु᳓ अन्त᳓र्
यं᳓ वि᳓प्रास ई᳓ळते अध्वरे᳓षु
अ᳓पां नपान् म᳓धुमतीर् अपो᳓ दा
या᳓भिर् इ᳓न्द्रो वावृधे᳓ वीरि᳓याय

05 याभिः सोमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓भिः सो᳓मो मो᳓दते ह᳓र्षते च
कल्याणी᳓भिर् युवति᳓भिर् न᳓ म᳓र्यः
ता᳓ अध्वर्यो अपो᳓ अ᳓छा प᳓रेहि
य᳓द् आसिञ्चा᳓ ओ᳓षधीभिः पुनीतात्

06 एवेद्यूने युवतयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवे᳓द् यू᳓ने युवत᳓यो नमन्त
य᳓द् ईम् उश᳓न्न् उशती᳓र् ए᳓ति अ᳓छ
सं᳓ जानते म᳓नसा सं᳓ चिकित्रे
अध्वर्य᳓वो धिष᳓णा᳓पश् च देवीः᳓

07 यो वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वो वृता᳓भ्यो अ᳓कृणोद् उलोकं᳓†
यो᳓ वो मह्या᳓ अभि᳓शस्तेर् अ᳓मुञ्चत्
त᳓स्मा इ᳓न्द्राय म᳓धुमन्तम् ऊर्मिं᳓
देवमा᳓दनम् प्र᳓ हिणोतनापः

08 प्रास्मै हिनोत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रा᳓स्मै हिनोत म᳓धुमन्तम् ऊर्मिं᳓
ग᳓र्भो यो᳓ वः सिन्धवो म᳓ध्व उ᳓त्सः
घृत᳓पृष्ठम् ई᳓डियम् अध्वरे᳓षु
आ᳓पो रेवतीः शृणुता᳓ ह᳓वम् मे

09 तं सिन्धवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ सिन्धवो मत्सर᳓म् इन्द्रपा᳓नम्
ऊर्मि᳓म् प्र᳓ हेत य᳓ उभे᳓ इ᳓यर्ति
मदच्यु᳓तम् · औशानं᳓ नभोजा᳓म्
प᳓रि त्रित᳓न्तुं विच᳓रन्तम् उ᳓त्सम्

10 आववृड़्ततीरध नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आव᳓र्वृततीर् अ᳓ध नु᳓ द्विधा᳓रा
गोषुयु᳓धो न᳓ नियवं᳓ च᳓रन्तीः
ऋ᳓षे ज᳓नित्रीर् भु᳓वनस्य प᳓त्नीर्
अपो᳓ वन्दस्व सवृ᳓धः स᳓योनीः

11 हिनोता नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिनो᳓ता नो अध्वरं᳓ देवयज्या᳓
हिनो᳓त ब्र᳓ह्म सन᳓ये ध᳓नानाम्
ऋत᳓स्य यो᳓गे वि᳓ षियध्वम् ऊ᳓धः
श्रुष्टीव᳓रीर् भूतनास्म᳓भ्यम् आपः

12 आपो रेवतीः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓पो रेवतीः क्ष᳓यथा हि᳓ व᳓स्वः
क्र᳓तुं च भद्र᳓म् बिभृथा᳓मृ᳓तं च
राय᳓श् च स्थ᳓ सुअपत्य᳓स्य प᳓त्नीः
स᳓रस्वती त᳓द् गृणते᳓ व᳓यो धात्

13 प्रति यदापो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति य᳓द् आ᳓पो अ᳓दृश्रम् आयती᳓र्
घृत᳓म् प᳓यांसि बि᳓भ्रतीर् म᳓धूनि
अध्वर्यु᳓भिर् म᳓नसा संविदाना᳓
इ᳓न्द्राय सो᳓मं सु᳓षुतम् भ᳓रन्तीः

14 एमा अग्मन्रेवतीर्जिवधन्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓मा᳓ अग्मन् रेव᳓तीर् जीव᳓धन्या
अ᳓ध्वर्यवः साद᳓यता सखायः
नि᳓ बर्हि᳓षि धत्तन सोमियासो
अपां᳓ न᳓प्त्रा संविदाना᳓स एनाः

15 आग्मन्नाप उशतीर्बर्हिरेदम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ग्मन्न् आ᳓प उशती᳓र् बर्हि᳓र् ए᳓दं᳓
नि᳓ अध्वरे᳓ असदन् देवय᳓न्तीः
अ᳓ध्वर्यवः सुनुते᳓न्द्राय सो᳓मम्
अ᳓भूद् उ वः सुश᳓का देवयज्या᳓