०२६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र हि’ इति नवर्चं दशमं सूक्तमानुष्टुभं पूषदेवताकम् । आद्याचतुर्थ्यावुष्णिहौ। ऋषिः पूर्ववत् । तथा चानुक्रान्तं – प्र हि नव पौष्णमानुष्टुभमाद्याचतुर्थ्या उष्णिहौ’ इति । गतो विनियोगः ॥

Jamison Brereton

26 (852)
Pūsaṇ
Vimada Aindra or Vimada Prājāpatya, or Vasukrt V̥ āsukra
9 verses: anuṣṭubh, except uṣṇih 1, 4
Unlike most treatments of Pūṣan in the R̥gveda, with their generally simple but lively and colloquial language and concentration on Pūṣan’s mundane activities, this hymn is bristling with difficulties, oddly constructed hapax compounds, and high, though frequently unclear, sentiments. See especially verse 6, whose language and intent are almost entirely obscure.
The general themes are Pūṣan’s reciprocal relationship with inspired poets and their thoughts (see vss. 1–2, 4–5) and his role as companion and friend (see vss. 2, 5–8).

01 प्र ह्यच्छा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ हि᳓ अ᳓छा मनीषा᳓
स्पार्हा᳓ य᳓न्ति नियु᳓तः
प्र᳓ दस्रा᳓ नियु᳓द्रथः
पूषा᳓ अविष्टु मा᳓हिनः

02 यस्य त्यन्महित्वम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य त्य᳓न् महित्वं᳓
वाता᳓पियम् अयं᳓ ज᳓नः
वि᳓प्र आ᳓ वंसद् धीति᳓भिश्
चि᳓केत सुष्टुतीना᳐᳓म्

03 स वेद - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वेद सुष्टुतीना᳐᳓म्
इ᳓न्दुर् न᳓ पूषा᳓ वृ᳓षा
अभि᳓ प्सु᳓रः प्रुषायति
व्रजं᳓ न आ᳓ प्रुषायति

04 मंसीमहि त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

मंसीम᳓हि त्वा वय᳓म्
अस्मा᳓कं देव पूषन्
मतीनां᳐᳓ च सा᳓धनं
वि᳓प्राणां᳐ च आधव᳓म्

05 प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓तिअर्धिर् यज्ञा᳓ना᳐म्
अश्वहयो᳓ र᳓थाना᳐म्
ऋ᳓षिः स᳓ यो᳓ म᳓नुर्हितो
वि᳓प्रस्य यावयत्सखः᳓

06 आधीषमाणायाः पतिः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आधी᳓षमाणायाः प᳓तिः
शुचा᳓याश् च शुच᳓स्य च
वासोवायो᳓ अ᳓वीना᳐म्
आ᳓ वा᳓सांसि म᳓र्मृजत्

07 इनो वाजानाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इनो᳓ वा᳓जाना᳐म् प᳓तिर्
इनः᳓ पुष्टीनां᳐᳓ स᳓खा
प्र᳓ श्म᳓श्रु हर्यतो᳓ दूधोद्
वि᳓ वृ᳓था यो᳓ अ᳓दाभियः

08 आ ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते र᳓थस्य पूषन्न्
अजा᳓ धु᳓रं ववृत्युः
वि᳓श्वस्य अर्थि᳓नः स᳓खा
सनोजा᳓ अ᳓नपच्युतः

09 अस्माकमूर्जा रथम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कम् ऊर्जा᳓ र᳓थम्
पूषा᳓ अविष्टु मा᳓हिनः
भु᳓वद् वा᳓जानां᳐ वृध᳓
इमं᳓ नः शृणवद् ध᳓वम्