०२०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘भद्रम्’ इति दशर्चं चतुर्थं सूक्तम् । आद्यैकपदा दशाक्षरा विराट् । ‘अग्निमीळे भुजाम्’ इत्येषानुष्टुप् । नवमी विराट् दशमी त्रिष्टुप् मध्ये षट् गायत्र्यः । इदमादीनां सप्तसूक्तानामिन्द्रपुत्रः प्रजापतिपुत्रो वा विमद ऋषिर्वसुक्रपुत्रो वसुकृदाख्यो वा । इदमुत्तरं चाग्नेयम् । तथा चानुक्रान्तं – ’सप्तोत्तराण्यैन्द्रो विमदः प्राजापत्यो वा वासुक्रो वसुकृद्वा भद्रं दशाग्नेयं तु गायत्रमाद्यैकपदा पाद एव वा शान्त्यर्थः परानुष्टुबन्त्ये विराट्त्रिष्टुभौ’ इति । गतो विनियोगः ॥

Jamison Brereton

20 (846)
Agni
Vimada Aindra or Vimada Prājāpatya, or Vasukrt V̥ āsukra
10 verses: gāyatrī, except ekapadāvirāj 1, anuṣṭubh 2, virāj 9, triṣṭubh 10
This first of the Vimada hymns starts with a single-pāda verse adapted from the first verse of X.25 and placed here to provide an auspicious beginning for the series. The second verse has a similarly marked beginning: its first two words are identical to the first words of the R̥gveda, I.1.1 agním īḷe “I invoke Agni….” The hymn mostly treats the familiar topic of the physical presence of the ritual fire, though with some strik
ing imagery and turns of phrase. The fire’s expansion upward, even to heaven, is the subject of the middle verses (4–6), with his expansion opening the way also for mor tals and for gods. In the final summary verse (10) the poet Vimada names himself.

01 भद्रं नो - एकपदा विराट् (पाद एव वा शान्त्यर्थः)

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रं᳓ नो अ᳓पि वातय म᳓नः

02 अग्निमीळे भुजाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓म् ईळे भुजां᳓ य᳓विष्ठं
शासा᳓ मित्रं᳓ दुर्ध᳓रीतुम्
य᳓स्य ध᳓र्मन् स्व᳡र् ए᳓नीः
सपर्य᳓न्ति मातु᳓र् ऊ᳓धः

03 यमासा कृपनीळम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् आसा᳓ कृप᳓नीळम्
भासा᳓केतुं वर्ध᳓यन्ति
भ्रा᳓जते श्र᳓यणिदन्+

04 अर्यो विशाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अर्यो᳓ विशां᳓ गातु᳓र् एति
प्र᳓ य᳓द् आ᳓नड् दिवो᳓ अ᳓न्तान्
कवि᳓र् अभ्रं᳓ दी᳓दियानः

05 जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जुष᳓द् धव्या᳓ मा᳓नुषस्य
ऊर्ध्व᳓स् तस्थाव् ऋ᳓भ्वा यज्ञे᳓
मिन्व᳓न् स᳓द्म पुर᳓ एति

06 स हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ क्षे᳓मो हवि᳓र् यज्ञः᳓
श्रुष्टी᳓द् अस्य गातु᳓र् एति
अग्निं᳓ देवा᳓ वा᳓शीमन्तम्

07 यज्ञासाहं दुव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञासा᳓हं दु᳓व इषे
अग्नि᳓म् पू᳓र्वस्य शे᳓वस्य
अ᳓द्रेः सूनु᳓म् आयु᳓म् आहुः

08 नरो ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓रो ये᳓ के᳓ च अस्म᳓द् आ᳓
वि᳓श्वे᳓त् ते᳓ वाम᳓ आ᳓ सियुः
अग्निं᳓ हवि᳓षा व᳓र्धन्तः

09 कृष्णः श्वेतोऽरुषो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

कृष्णः᳓ श्वेतो᳓ अरुषो᳓ या᳓मो अस्य
ब्रध्न᳓ ऋज्र᳓ उत᳓ शो᳓णो य᳓शस्वान्
हि᳓रण्यरूपं ज᳓निता जजान

10 एवा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ ते अग्ने विमदो᳓ मनीषा᳓म्
ऊ᳓र्जो नपाद् अमृ᳓तेभिः सजो᳓षाः
गि᳓र आ᳓ वक्षत् सुमती᳓र् इयान᳓
इ᳓षम् ऊ᳓र्जं सुक्षितिं᳓ वि᳓श्वम् आ᳓भाः