००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ स्वस्ति नः’ इति सप्तर्चं सप्तमं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘स्वस्ति’ इत्यनुक्रान्तम् । उक्तः सूक्तविनियोगः । स्वस्त्ययन्यां प्रधानस्य ‘ स्वस्ति नः’ इत्येषानुवाक्या। सूत्रितं च - अग्निः स्वस्तिमान् स्वस्ति नो दिवो अग्ने पृथिव्याः’ (आश्व. श्रौ. २. १०) इति ॥

Jamison Brereton

7 (833)
Agni
Trita Āptya
7 verses: triṣṭubh
This last of the Trita Āptya hymns is not particularly noteworthy, though it shows some affinities with hymns earlier in the Trita Āptya sequence. Verses 5–6 point to Agni’s role as “seasonal sacrificer” (r̥tv-íj), a role explored in X.2. Agni’s supreme competence as a sacrificer is contrasted with the potential incompetence of the mortal sacrificer in verse 4, as in X.2.5. Otherwise the hymn seems primarily con
cerned with the material gain that will come to the mortal sacrificer for his ritual efforts (see esp. vss. 1d, 2, 4, and 7).

01 स्वस्ति नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।
सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः॑ ॥

02 इमा अग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राधः॑ ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभिः॑ सुजात ॥

03 अग्निं मन्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् ।
अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥

04 सिध्रा अग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता ।
ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥

05 द्युभिर्हितं मित्रमिव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् ।
बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनन्त वि॒क्षु होता॑रं॒ न्य॑सादयन्त ॥

06 स्वयं यजस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः ।
यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥

07 भवा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः ।
रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥