००६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

सप्तमस्याष्टकस्येत्थं व्याकार्षीत् पञ्चमं सुधीः ।।

सायणाह्णस्ततः षष्ठमध्यायं व्याचिकीर्षति ॥

दशमे मण्डले प्रथमेऽनुवाके षोडश सूक्तानि । तत्र ‘ अयं स यस्य’ इति सप्तर्चं षष्ठं सूक्तमाप्त्यस्य त्रितस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ अयम्’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।

Jamison Brereton

6 (832)
Agni
Trita Āptya
7 verses: triṣṭubh
After the enigmas of the preceding hymn, the relative simplicity of this one comes as some relief. It begins with an annunciatory “here he is,” and the remainder of the first three verses consists of relative clauses describing Agni. Relative clauses also dominate verses 5–6. The contents are fairly standard: Agni’s radiance (esp. vss. 1–2), his role in the sacrifice and his reciprocal relationship with the poet and priest (vss. 3–5), and prayers for Agni’s intervention in bringing help and other good things to us (vss. 6–7). These last two verses address Agni directly; in the first five verses he appears only in the 3rd person. Unlike the last hymn, in which the word agní appeared only in the last half-verse, this hymn contains a form of the name in every verse.

01 अयं स - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ स᳓ य᳓स्य श᳓र्मन्न् अ᳓वोभिर्
अग्ने᳓र् ए᳓धते जरिता᳓ अभि᳓ष्टौ
ज्य᳓यिष्ठेभिर्+ यो᳓ भानु᳓भिर् ऋषूणा᳓म्
परिए᳓ति प᳓रिवीतो विभा᳓वा

02 यो भानुभिर्विभावा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ भानु᳓भिर् विभा᳓वा विभा᳓ति
अग्नि᳓र् देवे᳓भिर् ऋता᳓वा अ᳓जस्रः
आ᳓ यो᳓ विवा᳓य सखिया᳓ स᳓खिभ्यो
अ᳓परिह्वृतो अ᳓तियो न᳓ स᳓प्तिः

03 ईशे यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓शे यो᳓ वि᳓श्वस्या देव᳓वीतेर्
ई᳓शे विश्वा᳓युर् उष᳓सो वि᳓उष्टौ
आ᳓ य᳓स्मिन् मना᳓ हवीं᳓षि अग्ना᳓व्
अ᳓रिष्टरथ स्कभ्ना᳓ति शूषइः᳓

04 शूषेभिवृड़्धो जुषाणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शूषे᳓भिर् वृधो᳓ जुषाणो᳓ अर्कइ᳓र्
देवाँ᳓ अ᳓छा रघुप᳓त्वा जिगाति
मन्द्रो᳓ हो᳓ता स᳓ जुहु᳓वा य᳓जिष्ठः
स᳓म्मिश्लो अग्नि᳓र् आ᳓ जिघर्ति देवा᳓न्

05 तमुस्रामिन्द्रं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् उस्रा᳓म् इ᳓न्द्रं न᳓ रे᳓जमानम्
अग्निं᳓ गीर्भि᳓र् न᳓मोभिर् आ᳓ कृणुध्वम्
आ᳓ यं᳓ वि᳓प्रासो मति᳓भिर् गृण᳓न्ति
जात᳓वेदसं जुहु᳓वं सहा᳓नाम्

06 सं यस्मिन्विश्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ य᳓स्मिन् वि᳓श्वा व᳓सूनि जग्मु᳓र्
वा᳓जे न᳓ अ᳓श्वाः स᳓प्तीवन्त ए᳓वैः
अस्मे᳓ ऊती᳓र् इ᳓न्दरवाततमा+
अर्वाचीना᳓ अग्न आ᳓ कृणुष्व

07 अधा ह्यग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा हि᳓ अग्ने मह्ना᳓ निष᳓द्या
सद्यो᳓ जज्ञानो᳓ ह᳓वियो बभू᳓थ
तं᳓ ते देवा᳓सो अ᳓नु के᳓तम् आयन्न्
अ᳓धावर्धन्त प्रथमा᳓स ऊ᳓माः