००३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इनो राजन्’ इति सप्तर्चं तृतीयं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘इनः’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

3 (829)
Agni
Trita Āptya
7 verses: triṣṭubh
The very moment of transition from night to dawn is the event celebrated in this hymn—the time when the ritual fire is kindled. Agni’s triumph over Night, a female, and his welcoming of Dawn, likewise a female, are the subjects of the first three verses, and the whole hymn is pervaded by Agni’s wide shining and the many words that express his radiance and brightness.
The poet is also fond of synesthetic images, as when his journeys “kindle” calls in verse 4, or his beams “purify themselves” (the signature verb of the soma drinks) like sounds (probably of soma as well) in verse 5. The poet’s pet word for Agni, aratí “spoked wheel” (vss. 1, 2, 6, and 7), presumably originally referring to the shape of the fireplace, prompts a number of chariot and journey images through the hymn (vss. 4, 6, 7).

01 इनो राजन्नरतिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इनो᳓ राजन्न् · अरतिः᳓ स᳓मिद्धो
रउ᳓द्रो द᳓क्षाय सुषुमाँ᳓ अदर्शि
चिकि᳓द् वि᳓ भाति भा᳐सा᳓ बृहता᳓
अ᳓सिक्नीम् एति रु᳓शतीम् अपा᳓जन्

02 कृष्णां यदेनीमभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कृष्णां᳓ य᳓द् ए᳓नीम् अभि᳓ व᳓र्पसा भू᳓ज्
जन᳓यन् यो᳓षाम् बृहतः᳓ पितु᳓र् जा᳓म्
ऊर्ध्व᳓म् भानुं᳓ सू᳓रियस्य स्तभाय᳓न्
दिवो᳓ व᳓सुभिर् अरति᳓र् वि᳓ भाति

03 भद्रो भद्रया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रो᳓ भद्र᳓या स᳓चमान आ᳓गात्
स्व᳓सारं जारो᳓ अभि᳓ एति पश्चा᳓त्
सुप्रकेतइ᳓र् द्यु᳓भिर् अग्नि᳓र् विति᳓ष्ठन्
रु᳓शद्भिर् व᳓र्णैर् अभि᳓ राम᳓म् अस्थात्

04 अस्य यामासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ या᳓मासो बृहतो᳓ न᳓ वग्नू᳓न्
इ᳓न्धाना अग्नेः᳓ स᳓खियुः शिव᳓स्य
ई᳓ड्यस्य वृ᳓ष्णो बृहतः᳓ सुआ᳓सो
भा᳓मासो या᳓मन् अक्त᳓वश् चिकित्रे

05 स्वना न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वना᳓ न᳓ य᳓स्य भा᳓मासः प᳓वन्ते
रो᳓चमानस्य बृहतः᳓ सुदि᳓वः
ज्ये᳓ष्ठेभिर् य᳓स् ते᳓जिष्ठैः क्रीळुम᳓द्भिर्
व᳓र्षिष्ठेभिर् भानु᳓भिर् न᳓क्षति द्या᳓म्

06 अस्य शुष्मासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ शु᳓ष्मासो ददृशान᳓पवेर्
जे᳓हमानस्य स्वनयन् नियु᳓द्भिः
प्रत्ने᳓भिर् यो᳓ रु᳓शद्भिर् देव᳓तमो
वि᳓ रे᳓भद्भिर् अरति᳓र् भा᳓ति वि᳓भ्वा

07 स आ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ आ᳓ वक्षि म᳓हि न आ᳓ च सत्सि
दिव᳓स्पृथिव्यो᳓र् अरति᳓र् युवत्योः᳓
अग्निः᳓ सुतु᳓कः सुतु᳓केभिर् अ᳓श्वै
र᳓भस्वद्भी र᳓भस्वाँ ए᳓ह᳓ गम्याः