००१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ अथ दशमं मण्डलम् ॥ दशमे मण्डले द्वादशानुवाकाः । तत्र प्रथमानुवाके षोश सूकानि । तत्र ‘अग्रे बृहन्’ इति सप्तर्चं प्रथमं सूक्तमाप्त्यस्य त्रितस्यार्षम् । अनादेशपरिभाषया त्रिष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता। तथा चानुक्रम्यते—- अग्रे सप्त त्रितः ’ इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादीन्यष्ट सूक्तान्यष्टमस्यान्त्यास्तिस्रो वर्जयित्वा । सूत्र्यते हि—- ‘अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमोत्तमास्तिस्र उद्धरेदिति त्रैष्टुभम्’ (आश्व. श्रौ. ४. १३) इति । ‘प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य सहस्रावममोदेतोः शंसेत् ’ (आश्व. श्रौ, ६. ५) इति च । होमार्थं प्रणीत आहवनीये प्राग्घोमादुपशान्ते ज्योतिष्मद्गुणकाग्निदेवताका काचिदिष्टिः । तत्राद्या याज्या। सूत्रितं च —– इष्टिरग्निर्ज्योतिष्मान् वरुण उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थात् ’ ( आश्व. श्रौ. ३. १३) इति । उपकरणोत्सर्जनयोर्मण्डलादिहोमेऽप्येषा। सूत्रमुदाहृतम् ।।

Jamison Brereton

1 (827)
Agni
Trita Āptya
7 verses: triṣṭubh
An appropriate beginning to an Agni cycle, this hymn recounts the birth of the ritual fire at dawn—the word jātá “at birth, once born” is repeated four times in the hymn (vss. 1–3, 6). But this nascent fire is endowed with cosmic importance, identi fied as the embryo of the two worlds (vs. 2) and compared to Viṣṇu in his lofty reach (vs. 3ab). The role of his hymnists is also given its due (3cd), and Agni’s pivotal priestly role in the sacrifice is emphasized as the hymn continues (vss. 5cd–7). In the final verse (7) Agni is sent forth to bring the gods to the ritual ground, where the sacrifice can begin.

01 अग्रे बृहन्नुषसामूर्ध्वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् ।
अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥

02 स जातो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशुः॒ परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥

03 विष्णुरित्था परममस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् ।
आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥

04 अत उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः॑ ।
ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥

05 होतारं चित्ररथमध्वरस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् ।
प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥

06 स तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः ।
अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥

07 आ हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ ।
प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥