११४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘य इन्दोः’ इति चतुर्ऋचमेकादशं सूक्तम् । ऋष्याद्याः: पूर्ववत् । तथा चानुक्रम्यते – य इन्दोश्चतुष्कम्’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

114 (826)
Soma Pavamāna
Kaśyapa Mārīca
4 verses: paṅkti
This final hymn in the Soma Maṇḍala has the feeling of an afterthought. The seer addresses himself in verse 2, and the fortunate ritualist depicted in verse 1 is most likely Kaśyapa as well. In verse 3 he produces a triad of heptads, which have little to do with his call to Soma to protect us (3d). The final verse (4) repeats this call and enlarges on the dangers we wish to avoid.

01 य इन्दोः - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ इ᳓न्दोः प᳓वमानस्य
अ᳓नु धा᳓मानि अ᳓क्रमीत्
त᳓म् आहुः सुप्रजा᳓ इ᳓ति
य᳓स् ते सोमा᳓विधन् म᳓न
इ᳓न्द्रायेन्दो प᳓रि स्रव

02 ऋषे मन्त्रकृताम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ᳓षे मन्त्रकृ᳓तां स्तो᳓मैः
क᳓श्यपोद्वर्ध᳓यन् गि᳓रः
सो᳓मं नमस्य रा᳓जानं
यो᳓ जज्ञे᳓ वीरु᳓धाम् प᳓तिर्
इ᳓न्द्रायेन्दो प᳓रि स्रव

03 सप्त दिशो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त᳓ दि᳓शो ना᳓नासूर्याः
सप्त᳓ हो᳓तार ऋत्वि᳓जः
देवा᳓ आदित्या᳓ ये᳓ सप्त᳓
ते᳓भिः सोमाभि᳓ रक्ष न
इ᳓न्द्रायेन्दो प᳓रि स्रव

04 यत्ते राजञ्छृतम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् ते राजञ् छृतं᳓ हवि᳓स्
ते᳓न सोमाभि᳓ रक्ष नः
अरातीवा᳓ मा᳓ नस् तारीन्
मो᳓ च नः किं᳓ चना᳓ममद्
इ᳓न्द्रायेन्दो प᳓रि स्रव