१०९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘परि प्र’ इति द्वाविंशत्यृचे द्वैपदं षष्ठं सूक्तम् । यज्ञे सदस्यवस्थितहोत्रीयादिधिष्ण्योपेता अग्नयो नामेश्वरपुत्रा ऋषयः । विंशतिका द्विपदा विराजः । पवमानः सोमो देवता । तथा चानुक्रान्तं – परि प्र द्व्यधिकाग्नयो धिष्ण्या ऐश्वर द्वैपदम्’ इति । गतो विनियोगः ॥

Jamison Brereton

109 (821)
Soma Pavamāna
Dhiṣṇya Fires, descendants of Īśvara
22 verses: dvipadā virāj, arranged in trcas ̥
The Anukramaṇī’s fanciful ascription of this hymn to the dhiṣṇya (“holy”) fires finds no echo in the composition itself.
The lightness and brevity of this meter (each verse containing four pādas of a mere five syllables each) do not lend themselves to complex phraseology or elaborate images. Instead the hymn consists primarily of standard apostrophes to Soma (e.g., the imperative “purify yourself” occurs five times in the hymn: vss. 4, 5, 6, 7, 10) and simple present-tense descriptions of the process of preparation (e.g., vs. 11 “they purify”; vs. 12 “they groom”).
For links with the next hymn, see the introduction to IX.110.

01 परि प्र - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि प्र᳓ धन्व इ᳓न्द्राय सोम
स्वादु᳓र् मित्रा᳓य पूष्णे᳓ भ᳓गाय

02 इन्द्रस्ते सोम - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस् ते सोम सुत᳓स्य पेयाः
क्र᳓त्वे द᳓क्षाय वि᳓श्वे च देवाः᳓

03 एवामृताय महे - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓मृ᳓ताय महे᳓ क्ष᳓याय
स᳓ शुक्रो᳓ अर्ष दिव्यः᳓ पीयू᳓षः

04 पवस्व सोम - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्व सोम महा᳓न् समुद्रः᳓
पिता᳓ देवा᳓नां वि᳓श्वाभि᳓ धा᳓म

05 शुक्रः पवस्व - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

शुक्रः᳓ पवस्व देवे᳓भ्यः सोम
दिवे᳓ पृथिव्यइ᳓ शं᳓ च प्रजा᳓यै

06 दिवो धर्तासि - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो᳓ धर्ता᳓सि शुक्रः᳓ पीयू᳓षः
सत्ये᳓ वि᳓धर्मन् वाजी᳓ पवस्व

07 पवस्व सोम - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्व सोम द्युम्नी᳓ सुधारो᳓
महा᳓म् अ᳓वीनाम् अ᳓नु पूर्वियः᳓

08 नृभिर्येमानो जज्ञानः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

नृ᳓भिर् येमानो᳓ जज्ञानः᳓ पूतः᳓
क्ष᳓रद् वि᳓श्वानि मन्द्रः᳓ सुवर्वि᳓त्

09 इन्दुः पुनानः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दुः पुनानः᳓ प्रजा᳓म् उराणः᳓
क᳓रद् वि᳓श्वानि द्र᳓विणानि नः

10 पवस्व सोम - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्व सोम क्र᳓त्वे द᳓क्षाय
अ᳓श्वो न᳓ निक्तो᳓ वाजी᳓ ध᳓नाय

11 तं ते - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ ते सोता᳓रो र᳓सम् म᳓दाय
पुन᳓न्ति सो᳓मम् महे᳓ द्युम्ना᳓य

12 शिशुं जज्ञानम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

शि᳓शुं जज्ञानं᳓ ह᳓रिम् मृजन्ति
पवि᳓त्रे सो᳓मं देवे᳓भ्य इ᳓न्दुम्

13 इन्दुः पविष्थ - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दुः पविष्ट चा᳓रुर् म᳓दाय
अपा᳓म् उप᳓स्थे कवि᳓र् भ᳓गाय

14 बिभर्ति चार्विन्द्रस्य - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

बि᳓भर्ति चा᳓रु इ᳓न्द्रस्य ना᳓म
ये᳓न वि᳓श्वानि वृत्रा᳓ जघा᳓न

15 पिबन्त्यस्य विश्वे - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बन्ति अस्य वि᳓श्वे देवा᳓सो
गो᳓भिः श्रीत᳓स्य नृ᳓भिः सुत᳓स्य

16 प्र सुवानो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ स्वानो᳓° अक्षाः सह᳓स्रधारस्
तिरः᳓ पवि᳓त्रं वि᳓ वा᳓रम् अ᳓व्यम्

17 स वाज्यक्षाः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वाजी᳓ अक्षाः सह᳓स्ररेता
अद्भि᳓र् मृजानो᳓ गो᳓भिः श्रीणानः᳓

18 प्र सोम - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सोम याहि इ᳓न्द्रस्य कुक्षा᳓
नृ᳓भिर् येमानो᳓ अ᳓द्रिभिः सुतः᳓

19 असर्जि वाजी - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सर्जि वाजी᳓ तिरः᳓ पवि᳓त्रम्
इ᳓न्द्राय सो᳓मः सह᳓स्रधारः

20 अञ्जन्त्येनं मध्वो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अञ्ज᳓न्ति एनम् म᳓ध्वो र᳓सेन
इ᳓न्द्राय वृ᳓ष्ण इ᳓न्दुम् म᳓दाय

21 देवेभ्यस्त्वा वृथा - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

देवे᳓भियस् त्वा वृ᳓था पा᳓जसे
अपो᳓ व᳓सानं ह᳓रिम् मृजन्ति

22 इन्दुरिन्द्राय तोशते - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दुर् इ᳓न्द्राय तोशते नि᳓ तोशते
श्रीण᳓न्न् उग्रो᳓ रिण᳓न्न् अपः᳓