१०८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पवस्व’ इति षोडशर्चं पञ्चमं सूक्तम् । आद्यद्वृचस्य गौरिवीतिर्नाम शक्तिपुत्र ऋषिः । तृतीयायाः शक्तिर्नाम वासिष्ठः । ततः पञ्चानां द्वृचानामूरुर्नामाङ्गिरस ऋजिश्वा नाम भारद्वाज ऊर्ध्वसद्मा नामाङ्गिरसः कृतयशा नाम कश्चित् सोऽप्याङ्गिरस ऋणंचयो नाम राजर्षिरित्येते क्रमेणर्षयः । एवं त्रयोदश गताः । ततस्तिसृणा वासिष्ठः शक्तिः। प्रथमातृतीयाद्या अयुजः ककुभः । द्वितीयाचतुर्थ्याद्या युजः सतोबृहत्यः। स सुन्वे यो वसूनाम्’ इत्येषा तु यवमध्या गायत्री । पवमानः सोमो देवता । तथा चानुक्रम्यते– पवस्व षोळश गौरिवीतिर्द्वृचं शक्तिरेकामुरुर्ऋजिश्वोर्ध्वसद्मा कृतयशा ऋणंचय इत्यृषयो द्वृचास्तिस्रः शक्तिः काकुभाः प्रगाथाः स सुन्वे गायत्री यवमध्या’ इति । गतो विनियोगः ॥

Jamison Brereton

108 (820)
Soma Pavamāna
Gaurivīti Śāktya 1–2, Śakti Vāsiṣṭha 3, 14–16, Ūru Āṅgirasa 4–5, R̥jiśvan Bhāradvāja 6–7, Ūrdhvasadman Āṅgirasa 8–9, Krtaya ̥ śas Āṅgirasa 10–11, R̥ṇaṃcaya 12–13 16 verses: kakubh alternating with satobr̥hatī, except gāyatrī yavamadhyā 13, arranged in pragāthas
The Anukramaṇī names seven different poets as authors of this hymn; the Anukramaṇī’s divisions do not correspond at all to the clear pragātha structure, however, and therefore seem questionable. Within the pragāthas there is, more often than not, syntactic dependency between verses (e.g., vss. 3–4, 7–8, 13–14), as well as some thematic continuity. Stylistically the hymn, especially toward the beginning, is characterized by rather choppy syntax and often presents itself as a mosaic of semi self-contained phrases. On the other hand, there are signs of ring composition: the first phrase of the hymn, “purify yourself as the most honeyed for Indra, o Soma” recurs as the framing words of the first verse of the final pragātha (vs. 15), and the relative clause about the drinking of soma that introduces verse 2 is echoed, with the same relative pronoun, in 14a.
Allusions to the Vala myth are found in the interior of the hymn (vss. 4, 6). The heavenly soma, conceived of in part as rain, is also a prominent theme (vss. 9–11, and also probably vss. 4 [the “dear immortal one”] and 6 [the “watery” cows]). This cosmic soma is, as usual, a counterpoint to the ritual soma, the standard details of whose preparation are found throughout.

Jamison Brereton Notes

On the structure of the hymn see published introduction. It consists of pragāthas alternating Kakubh (8 12 / 8) with Satobṛhatī (12 8 / 12 8). The Anukr. attributes the hymn to seven different poets, but the vss. assigned to them generally violate the pragātha division, which, as the published introduction. indicates, is often reinforced by syntactic structure. The Anukr. also identifies vs. 13 as Gāyatrī Yavamadhyā, but it can be analyzed as a reasonably well-behaved Kakubh.

01 पवस्व मधुमत्तम - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ ।
महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥

02 यस्य ते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ ।
स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥

03 त्वं ह्यट्ङ्ग - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह्य१॒॑ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः ।
अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥

04 येना नवग्वो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे ।
दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥

05 एष स्य - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिन्त॑मः ।
क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥

06 य उस्रिया - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य उ॒स्रिया॒ अप्या॑ अ॒न्तरश्म॑नो॒ निर्गा अकृ॑न्त॒दोज॑सा ।
अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥

07 आ सोता - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ सो॑ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुर॑म् ।
व॒न॒क्र॒क्षमु॑द॒प्रुत॑म् ॥

08 सहस्रधारं वृषभम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने ।
ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥

09 अभि द्युम्नम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः ।
वि कोशं॑ मध्य॒मं यु॑व ॥

10 आ वच्यस्व - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ व॑च्यस्व सुदक्ष च॒म्वोः॑ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ ।
वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥

11 एतमु त्यम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः ।
विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥

12 वृषा वि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ ।
स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥

13 स सुन्वे - गायत्री यवमध्या

विश्वास-प्रस्तुतिः ...{Loading}...

स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नाम् ।
सोमो॒ यः सु॑क्षिती॒नाम् ॥

14 यस्य न - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ न॒ इन्द्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ ।
आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एन्द्र॒मव॑से म॒हे ॥

15 इन्द्राय सोम - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिन्त॑मः ।
पव॑स्व॒ मधु॑मत्तमः ॥

16 इन्द्रस्य हार्दि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः ।
जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ॥