१०७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘परीतः’ इति षड्विंशत्यृचं चतुर्थं सूक्तम् । ‘त्वं सोमासि’ (ऋ. सं. ९. ६७ ) इत्यत्रोक्ता भरद्वाजकश्यपाद्याः सप्तर्षयः । आद्या बृहती द्वितीया सतोबृहती। अयमेकः प्रगाथः । ‘परि सुवानः इत्येषा तृतीयैकविंशत्यक्षरा भुरिग्विराड् द्विपदा । ‘नृभिर्येमानः’ इति षोडशी विंशत्यक्षरा द्विपदा विराट् । चतुर्थ्यादिद्वौ प्रगाथौ । दशम्यादित्रयः सप्तदश्यादिपञ्च प्रगाथाः । पवमानः सोमो देवता । तथा चानुक्रम्यते – “परीतः षड्विंशतिः सप्तर्षयः प्रागाथं तृतीयाषोळश्यौ द्विपदे अष्टम्याद्ये बृहत्यौ’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

107 (819)
Soma Pavamāna
Seven Seers
26 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas, except dvipadā virāj bhurij 3 and dvipadā virāj 16 as supplemental verses to the preceding pragātha
This long hymn mostly stays focused the usual themes of the IXth Maṇḍala: the pressing of Soma, his journey across the filter, his entry into the waters, his mixing with cows’ milk, and his arrival at his destination, the wooden cups. Interspersed1354 IX.107
are references to Soma’s cosmic aspect (e.g., the heavenly udder in vs. 5) and cos mic deeds (e.g., making the sun mount in heaven, vs. 7). Especially prominent in the middle and late parts of the hymn are mentions of the sea (vss. 9, 14, 15, 16, 21, 23), referring both to the waters that the soma enters and to the expanse of soma itself.
Toward the end the hymn takes a slightly personal turn, in the pragātha of verses 19–20, where the poet celebrates his fellowship with Soma and, by implication, the mental state he achieves from drinking the soma. In particular, 20cd “We have flown like birds far past the sun…” recalls several famous 1st-person descriptions of soma’s effects: VIII.48.3 “We have drunk the soma; we have become immortal; we have gone to the light; we have found the gods” and X.119, the Laba-sūkta, in which the soma-drinker flies through the cosmos, describing his bird’s eye view of heaven and earth.

01 परीतो षिञ्चता - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

परी॒तो षि॑ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः ।
द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्व१॒॑न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥

02 नूनं पुनानोऽविभिः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः ।
सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ॥

03 परि सुवानश्चक्षसे - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिन्दु॑र्विचक्ष॒णः ॥

04 पुनानः सोम - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒ना॒नः सो॑म॒ धार॑या॒ ऽपो वसा॑नो अर्षसि (= पवित्रं गच्छसि)

आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ (=प्रस्यन्दनशीलः) देव हिर॒ण्ययः॑ ४

05 दुहान ऊधर्दिव्यम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं (=पुरातनम्) स॒धस्थ॒मास॑दत् (=स्थानमासदत्)

आ॒पृच्छ्यं॑ ध॒रुणं॑ (=धारयितारम्) वा॒ज्य॑र्षति॒ (=सोमो ऽभियाति)
नृभि॑र् धू॒तो (=शोधितः) वि॑चक्ष॒णः ५

06 पुनानः सोम - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥

07 सोमो मीढ्वान्पवते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः ।
त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥

08 सोम उ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी॑नाम् ।
अश्व॑येव ह॒रिता॑ याति॒ धार॑या म॒न्द्रया॑ याति॒ धार॑या ॥

09 अनूपे गोमान्गोभिरक्षाः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒नू॒पे गोमा॒न्गोभि॑रक्षाः॒ सोमो॑ दु॒ग्धाभि॑रक्षाः ।
स॒मु॒द्रं न सं॒वर॑णान्यग्मन्म॒न्दी मदा॑य तोशते ॥

10 आ सोम - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ सो॑म सुवा॒नो अद्रि॑भिस्ति॒रो वारा॑ण्य॒व्यया॑ ।
जनो॒ न पु॒रि च॒म्वो॑र्विश॒द्धरिः॒ सदो॒ वने॑षु दधिषे ॥

11 स मामृजे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे॑भि॒रृक्व॑भिः ॥

12 प्र सोम - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र सो॑म दे॒ववी॑तये॒ सिन्धु॒र्न पि॑प्ये॒ अर्ण॑सा ।
अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं॑ मधु॒श्चुत॑म् ॥

13 आ हर्यतो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ ।
तमीं॑ हिन्वन्त्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥

14 अभि सोमास - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि सोमा॑स आ॒यवः॒ पव॑न्ते॒ मद्यं॒ मद॑म् ।
स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रासः॑ स्व॒र्विदः॑ ॥

15 तरत्समुद्रं पवमान - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् ।
अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥

16 नृभिर्येमानो हर्यतो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रियः॑ ॥

17 इन्द्राय पवते - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य पवते॒ मदः॒ सोमो॑ म॒रुत्व॑ते सु॒तः ।
स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजन्त्या॒यवः॑ ॥

18 पुनानश्चमू जनयन्मतिम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति ।
अ॒पो वसा॑नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने॑ष्वव्यत ॥

19 तवाहं सोम - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तवा॒हं सो॑म रारण (=सन्तुष्टवान्)
स॒ख्य इ॑न्दो दि॒वेदि॑वे ।
पु॒रूणि॑ (=बहूनि) बभ्रो॒ (=बभ्रुवर्णः) नि च॑रन्ति॒ (राक्षसाः)
माम् अव॑ (रक्षोभ्यः)
(तव मत्स्व इति साम्नि)

परि॒धीँर् अति॒ ताँ इ॑हि (=अतिगच्छ) १९

20 उताहं नक्तमुत - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒ताहं (तवाहम् इति साम्नि) नक्त॑म् उ॒त सो॑म ते दिवा,
(परिमत्स्व इति साम्नि)

दुहानो बभ्र॒ ऊध॑नि।
(स॒ख्याय॑ बभ्र॒ ऊध॑नि। इति ऋचि)
घृ॒णा (=दीप्त्या) तप॑न्त॒मति॒ सूर्य॑म्प॒रः श॑कु॒ना इ॑व पप्तिम (=अतिपताम)
(दुह मत्स्व इति साम्नि)

21 मृज्यमानः सुहस्त्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि ।
र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥

22 मृजानो वारे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ ।
दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रञ्जा॒नो अ॑र्षसि ॥

23 पवस्व वाजसातयेऽभि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ ।
त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्यः॑ सोम मत्स॒रः ॥

24 स तू - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः ।
त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वन्ति धी॒तिभिः॑ ॥

25 पवमाना असृक्षत - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या ।
म॒रुत्व॑न्तो मत्स॒रा इ॑न्द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥

26 अपो वसानः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पो वसा॑नः॒ परि॒ कोश॑मर्ष॒तीन्दु॑र्हिया॒नः सो॒तृभिः॑ ।
ज॒नय॒ञ्ज्योति॑र्म॒न्दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥