१०६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इन्द्रमच्छ ’ इति चतुर्दशर्चं तृतीयं सूक्तमौष्णिहं पवमानसोमदेवताकम् । प्रथमस्य तृचस्य चक्षुराख्यपुत्रोऽग्निर्ऋषिः । द्वितीयस्य मनुपुत्रश्चक्षुर्नामा । अप्सुनाम्नः पुत्रो मनुस्तृतीयस्य । एवं नवर्चो गताः । शिष्टानामपि पञ्चानां चाक्षुषोऽग्निः । तथा चानुक्रम्यते— इन्द्रमच्छ षळूनाग्निश्चाक्षुषश्चक्षुर्मानवो मनुराप्सव इति तृचाः पञ्चाग्निः’ इति । गतो विनियोगः ॥

Jamison Brereton

106 (818)
Soma Pavamāna
Agni Cākṣuṣa (1–3), Cakṣus Mānava (4–6), Manu Āpsava (7–9), Agni Cākṣuṣa (10–14) 14 verses: uṣṇih
This last hymn in the uṣṇih collection, as is common with hymns positioned at the end of their metrical grouping, is too long and needs to be broken down into smaller units: four tr̥cas (vss. 1–3, 4–6, 7–9, 10–12) followed by a two-verse hymn (13–14). In this case the division is in general accord with the Anukramaṇī, which ascribes the hymn to three different mythical poets, marked by their patronymic relationships as grandson, son, and father, each with a tr̥ca. The grandson returns as poet of the last five verses, that is, of the final tr̥ca (10–12) and the two-verse unit that ends the hymn.
The contents of the hymn are entirely conventional, with a focus on Indra as drinker of the soma, especially in the first part of the hymn. Note that “finding the sun” is also a preoccupation, and that word (svarvíd) appears once in each of the first three tr̥cas (vss. 1, 4, 9).

Jamison Brereton Notes

On the structure of the hymn, see published introduction. See also Oldenberg’s assessment of the Uṣṇih variants, by tṛca.

01 इन्द्रमच्छ सुता - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः ।
श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ॥

02 अयं भराय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पवते सु॒तः ।
सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥

03 अस्येदिन्द्रो मदेष्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् ।
वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥

04 प्र धन्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ध॑न्वा सोम॒ जागृ॑वि॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ।
द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद॑म् ॥

05 इन्द्राय वृषणम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः ।
स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥

06 अस्मभ्यं गातुवित्तमो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः ।
स॒हस्रं॑ याहि प॒थिभिः॒ कनि॑क्रदत् ॥

07 पवस्व देववीतय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व दे॒ववी॑तय॒ इन्दो॒ धारा॑भि॒रोज॑सा ।
आ क॒लशं॒ मधु॑मान्त्सोम नः सदः ॥

08 तव द्रप्सा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः ।
त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥

09 आ नः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नः॑ सुतास इन्दवः पुना॒ना धा॑वता र॒यिम् ।
वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥

10 सोमः पुनान - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति ।
अग्रे॑ वा॒चः पव॑मानः॒ कनि॑क्रदत् ॥

11 धीभिर्हिन्वन्ति वाजिनम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

धी॒भिर्हि॑न्वन्ति वा॒जिनं॒ वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ॥

12 असर्जि कलशाँ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥

13 पवते हर्यतो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ ।
अ॒भ्यर्ष॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥

14 अया पवस्व - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत ।
रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥