१०५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘तं वः’ इति षडृचं द्वितीयं सूक्तं पर्वतनारदयोरार्षम् । अन्यत् पूर्ववत् । ’ तं वः’ इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥

Jamison Brereton

105 (817)
Soma Pavamāna
Parvata and Narada
6 verses: uṣṇih
For discussion of this twin to IX.104, see the introduction to that hymn.

Jamison Brereton Notes

As noted ad IX.104, this hymn has a very palpable twinned relationship with 104, though extensive exact repetition is avoided. What follows explicitly traces the parallels and the variations.

01 तं वः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वः सखायो म᳓दाय
पुनान᳓म् अभि᳓ गायत
शि᳓शुं न᳓ यज्ञइः᳓ स्वदयन्त गूर्ति᳓भिः

02 सं वत्स - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ वत्स᳓ इव मातृ᳓भिर्
इ᳓न्दुर् हिन्वानो᳓ अज्यते
देवावी᳓र् म᳓दो मति᳓भिः प᳓रिष्कृतः

03 अयं दक्षाय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ द᳓क्षाय सा᳓धनो
अयं᳓ श᳓र्धाय वीत᳓ये
अयं᳓ देवे᳓भ्यो म᳓धुमत्तमः सुतः᳓

04 गोमन्न इन्दो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

गो᳓मन् न इन्दो अ᳓श्ववत्
सुतः᳓ सुदक्ष धनुव
शु᳓चिं ते व᳓र्णम् अ᳓धि गो᳓षु दीधरम्

05 स नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो हरीणा᳐म् पत
इ᳓न्दो देव᳓प्सरस्तमः
स᳓खेव स᳓ख्ये न᳓रियो रुचे᳓ भव

06 सनेमि त्वमस्मदाँ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓नेमि तुव᳓म् अस्म᳓द् आँ᳓
अ᳓देवं कं᳓ चिद् अत्रि᳓णम्
साह्वाँ᳓ इन्दो प᳓रि बा᳓धो अ᳓प द्वयु᳓म्