०९९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आ हर्यताय’ इत्यष्टर्चं तृतीयं सूक्तम् । कश्यपगोत्रौ रेभसूनू एतत्संज्ञौ द्वावृषी । आद्या बृहती सप्तानुष्टुभः। पवमानसोमो देवता । तथा चानुक्रान्तम्-’ आ हर्यतायाष्टौ रेभसूनू काश्यपौ बृहत्याद्या ’ इति । गतो विनियोगः ॥

Jamison Brereton

99 (811)
Soma Pavamāna
Two sons of Rebha, the Kāśyapas
8 verses: anuṣṭubh, except br̥hatī 1
The varieties of thought and its poetic expressions are the focus of this hymn, espe cially in its earlier verses (1–2, 4–5), and Soma’s mental and verbal powers comple ment those of his mortal worshipers (vs. 6). The physical preparation of soma is not neglected, however (esp. vss. 3, 7–8).

Jamison Brereton Notes

098-101 ...{Loading}...

Jamison Brereton Notes

Hymns predominantly in Anuṣṭubh

01 आ हर्यताय - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ हर्यता᳓य धृष्ण᳓वे
ध᳓नुस् तन्वन्ति पउं᳓सियम्
शुक्रां᳓ वयन्ति अ᳓सुराय निर्णि᳓जं
विपा᳓म् अ᳓ग्रे महीयु᳓वः

02 अध क्षपा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध क्षपा᳓ प᳓रिष्कृतो
वा᳓जाँ अभि᳓ प्र᳓ गाहते
य᳓दी विव᳓स्वतो धि᳓यो
ह᳓रिं हिन्व᳓न्ति या᳓तवे

03 तमस्य मर्जयामसि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् अस्य मर्जयामसि
म᳓दो य᳓ इन्द्रपा᳓तमः
यं᳓ गा᳓व आस᳓भिर् दधुः᳓
पुरा᳓ नूनं᳓ च सूर᳓यः

04 तं गाथया - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ गा᳓थया पुराणिया᳓
पुनान᳓म् अभ्य् अ᳡नूषत
उतो᳓ कृपन्त धीत᳓यो
देवा᳓नां ना᳓म बि᳓भ्रतीः

05 तमुक्षमाणमव्यये वारे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् उक्ष᳓माणम् अव्य᳓ये
वा᳓रे पुनन्ति धर्णसि᳓म्
दूतं᳓ न᳓ पूर्व᳓चित्तय
आ᳓ शासते मनीषि᳓णः

06 स पुनानो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ पुनानो᳓ मदि᳓न्तमः
सो᳓मश् चमू᳓षु सीदति
पशउ᳓ न᳓ रे᳓त आद᳓धत्
प᳓तिर् वचस्यते धियः᳓

07 स मृज्यते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मृज्यते सुक᳓र्मभिर्
देवो᳓ देवे᳓भियः सुतः᳓
विदे᳓ य᳓द् आसु संददि᳓र्
मही᳓र् अपो᳓ वि᳓ गाहते

08 सुत इन्दो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुत᳓ इन्दो पवि᳓त्र आ᳓
नृ᳓भिर् यतो᳓ वि᳓ नीयसे
इ᳓न्द्राय मत्सरि᳓न्तमश्
चमू᳓षु आ᳓ नि᳓ षीदसि