०९८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अभि नः’ इति द्वादशर्चं द्वितीयं सूक्तम् । वृषागिरो राज्ञः पुत्रोऽम्बरीषो भरद्वाजपुत्र ऋजिश्वोभौ सहितावस्यर्षी। इदमुत्तराणि च त्रीण्यानुष्टुभानि । अत्र त्वेकादशी बृहती। पवमानः सोमो देवता । तथा चानुक्रम्यते–’ अभि नो द्वादशाम्बरीष ऋजिश्वा चानुष्टुभं ह बृहत्युपान्त्या ’ इति । गतो विनियोगः ॥

Jamison Brereton

98 (810)
Soma Pavamāna
Ambarīṣa Vārṣāgira and R̥jiśvan Bhāradvāja
12 verses: anuṣṭubh, except br̥hatī 11
The themes that dominate this hymn are standard soma tropes. The normal stages in the preparation of the soma are treated (see esp. vss. 2–3, 6–10), and the poet regularly reminds Soma of the gifts he should bring to his mortal preparers (see esp. vss. 1, 4–5, 12). Indeed the hymn begins and ends with an appeal for vā́ja “prizes” (vss. 1a, 12cd), in a sort of ring composition.
However, although the sentiments expressed and descriptions provided are unre markable, the hymn is characterized by very choppy and sometimes incoherent syn tax (which for purposes of translation has been cleaned up somewhat). Since there are also metrical disturbances in the hymn, one wonders if it has been transmitted entirely correctly.

Jamison Brereton Notes

098-101 ...{Loading}...

Jamison Brereton Notes

Hymns predominantly in Anuṣṭubh

01 अभि नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ नो वाजसा᳓तमं
रयि᳓म् अर्ष पुरुस्पृ᳓हम्
इ᳓न्दो सह᳓स्रभर्णसं
तुविद्युम्नं᳓ विभ्वास᳓हम्

02 परि ष्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि ष्य᳓ स्वानो᳓° अव्य᳓यं
र᳓थे न᳓ व᳓र्म अव्यत
इ᳓न्दुर् अभि᳓ द्रु᳓णा हितो᳓
हियानो᳓ धा᳓राभिर् अक्षाः

03 परि ष्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि ष्य᳓ सुवानो᳓ अक्षा
इ᳓न्दुर् अ᳓व्ये म᳓दच्युतः
धा᳓रा य᳓ ऊर्ध्वो᳓ अध्वरे᳓
भ्राजा᳓ न᳓ ए᳓ति गव्ययुः᳓

04 स हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ त्वं᳓ देव श᳓श्वते
व᳓सु म᳓र्ताय दाशु᳓षे
इ᳓न्दो सहस्रि᳓णं रयिं᳓
शता᳓त्मानं विवाससि

05 वयं ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ ते अस्य᳓ वृत्रहन्
व᳓सो व᳓स्वः पुरुस्पृ᳓हः
नि᳓ ने᳓दिष्ठतमा इषः᳓
स्या᳓म सुम्न᳓स्य अध्रिगो

06 द्विर्यं पञ्च - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्वि᳓र् य᳓म् प᳓ञ्च स्व᳓यशसं
स्व᳓सारो अ᳓द्रिसंहतम्
प्रिय᳓म् इ᳓न्द्रस्य का᳓मियम्
प्रस्नाप᳓यन्ति ऊर्मि᳓णम्

07 परि त्यम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि त्यं᳓ हर्यतं᳓ ह᳓रिम्
बभ्रु᳓म् पुनन्ति वा᳓रेण
यो᳓ देवा᳓न् वि᳓श्वाँ इ᳓त् प᳓रि
म᳓देन सह᳓ ग᳓छति

08 अस्य वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ वो हि᳓ अ᳓वसा
पा᳐᳓न्तो दक्षसा᳓धनम्
यः᳓ सूरि᳓षु श्र᳓वो बृह᳓द्
दधे᳓ सु᳓वर् ण᳓ हर्यतः᳓

09 स वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वां यज्ञे᳓षु मानवी
इ᳓न्दुर् जनिष्ट रोदसी
देवो᳓ देवी गिरिष्ठा᳐᳓
अ᳓स्रेधन् तं᳓ तुविष्व᳓णि

10 इन्द्राय सोम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राय सोम पा᳓तवे
वृत्रघ्ने᳓ प᳓रि षिच्यसे
न᳓रे च द᳓क्षिणावते
देवा᳓य सदनास᳓दे

11 ते प्रत्नासो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ प्रत्ना᳓सो वि᳓उष्टिषु
सो᳓माः पवि᳓त्रे अक्षरन्
अपप्रो᳓थन्तः सनुत᳓र् हुरश्चि᳓तः
प्रात᳓स् ताँ᳓ अ᳓प्रचेतसः

12 तं सखायः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ सखायः पुरोरु᳓चं
यूयं᳓ वयं᳓ च सूर᳓यः
अश्या᳓म वा᳓जगन्धियं
सने᳓म वा᳓जपस्तियम्