०९७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

षष्ठेऽनुवाके सप्त सूक्तानि । तत्र अस्य प्रेषा इत्यष्टापञ्चाशदृचं प्रथमं सूक्तं त्रैष्टुभं पवमानसोमदेवताकम् । तत्राद्यस्य तृचस्य मैत्रावरुणो वसिष्ठ ऋषिः । द्वितीयस्येन्द्रप्रमतिर्नाम । तृतीयस्य वृषगणः । चतुर्थस्य मन्युः। पञ्चमस्योपमन्युः । षष्ठस्य व्याघ्रपात् । सप्तमस्य शक्तिः । अष्टमस्य कर्णश्रुत् । नवमस्य मृळीकः । दशमस्य वसुक्रः । एते सर्वे वसिष्ठगोत्राः । एवं त्रिंशदृचो गताः । अथ चतुर्दशानामृचां शक्तिपुत्रः पराशर ऋषिः । शिष्टानामाङ्गिरसः कुत्सः । तथानुक्रम्यते- अस्य प्रेष्ठाष्टापञ्चाशदाद्यं तृचं वसिष्ठोऽपश्यदुत्तरान्नव पृथग्वसिष्ठा इन्द्रप्रमतिर्वृषगणो मन्युरुपमन्युर्व्याघ्रपाच्छक्तिः कर्णश्रुन्मृळीको वसुक्र इति चतुर्दश पराशरोऽन्त्याः कुत्सः इति । गतो विनियोगः ।।

Jamison Brereton

97 (809)
Soma Pavamāna
Vasiṣṭha Maitrāvaruṇi 1–3, Indrapramati Vāsiṣṭha 4–6, Vrṣ̥ agaṇa Vāsiṣṭha 7–9, Manyu Vāsiṣṭha 10–12, Upamanyu Vāsiṣṭha 13–15, Vyāghrapād Vāsiṣṭha 16–18, Śakti Vāsiṣṭha 19–21, Karṇaśrut Vāsiṣṭha 22–24, Mrḷ̥īka Vāsiṣṭha 25–27, Vasukra Vāsiṣṭha 28–30, Parāśara Śāktya 31–44, Kutsa Āṅgirasa 45–58
58 verses: triṣṭubh, arranged in trcas ̥
This is the longest hymn in the R̥gveda, consisting of fifty-eight verses, arranged in three-verse units. It is also the last IXth Maṇḍala hymn in triṣṭubh. Despite its extraordinary length, it can be analyzed as consisting of a series of originally independent tr̥cas combined into one, and it therefore conforms to the prevailing principles of arrangement in the Saṃhitā. In the first half (vss. 1–30) each tr̥ca is attributed to Vasiṣṭha or to a different Vasiṣṭhid; the second half is divided between two, non-Vasiṣṭhid, poets. If we assume that the tr̥ca division continues in this sec
ond half (as most scholars do), the Anukramaṇī ascription does not conform to the tr̥ca division, as the first two verses of the tr̥ca of verses 43–45 are credited to Parāśara Śāktya and the last one to Kutsa Āṅgirasa. There is also an extra verse, most probably the final one (58), which contains the Kutsa refrain of Maṇḍala I (I.94.16cd, etc.). Although according to the Anukramaṇī each of these poets is responsible for fourteen verses, there is no more apparent unity in these larger stretches than in the individual tr̥cas of the first half.
As is often the case in such long, composite hymns, the tr̥cas exhibit varying degrees of cohesiveness, from the tight and emphatic verbal repetitions of verses 49–51 to the diffuseness of groupings like verses 7–9, 40–42. Some of the tr̥cas, though not thematically or verbally unified, have a third verse that marks it as final; for instance, the first two tr̥cas (vss. 1–3, 4–6) each end with the Vasiṣṭha clan refrain as the last pāda, and the final verse of three tr̥cas begins with a summary evā́ “thus” (vss. 13–15, 19–21, 25–27), a word characteristic of final verses.
As might be expected, the contents of this hymn are also extremely various, but generally exhibit the standard tropes of soma hymns: the mechanisms of

soma preparation, including the journey across the filter and the mixing with waters and with milk; the power of soma to incite the gods, especially Indra, and the power of the ritualists and, especially, the poets, to strengthen the soma for this task; and the rewards the ritualists will receive from properly prepar
ing the soma. Nonetheless, the hymn contains a number of striking similes and metaphors, and some passages of great difficulty, chief among which is the tr̥ca of verses 52–54, which may (or may not) be a dānastuti and whose translation here is provisional in places. Note also verse 38, which in our interpretation con
tains an archaic formula denoting an archaic figure, the “Placer of the Sun” (see Jamison 2010).

Jamison Brereton Notes

On the structure of this, the longest hymn in the RV, see published introduction. It consists of tṛcas with varying degrees of cohesion.

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 अस्य प्रेषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ प्रेषा᳓ हेम᳓ना पूय᳓मानो
देवो᳓ देवे᳓भिः स᳓म् अपृक्त र᳓सम्
सुतः᳓ पवि᳓त्रम् प᳓रि एति रे᳓भन्
मिते᳓व स᳓द्म पशुमा᳓न्ति हो᳓ता

02 भद्रा वस्त्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रा᳓ व᳓स्त्रा समनि᳓या व᳓सानो
महा᳓न् कवि᳓र् निव᳓चनानि शं᳓सन्
आ᳓ वच्यस्व चमु᳓वोः पूय᳓मानो
विचक्षणो᳓ जा᳓गृविर् देव᳓वीतौ

03 समु प्रियो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् उ प्रियो᳓ मृज्यते सा᳓नो अ᳓व्ये
यश᳓स्तरो यश᳓सां क्षइ᳓तो अस्मे᳓
अभि᳓ स्वर ध᳓नुवा पूय᳓मानो
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः

04 प्र गायताभ्यर्चाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ गायत अभि᳓ अर्चाम देवा᳓न्
सो᳓मं हिनोत महते᳓ ध᳓नाय
स्वादुः᳓ पवाते अ᳓ति वा᳓रम् अ᳓व्यम्
आ᳓ सीदाति कल᳓शं देवयु᳓र् नः

05 इन्दुर्देवानामुप सख्यमायन्त्सहस्रधारः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दुर् देवा᳓नाम् उ᳓प सख्य᳓म् आय᳓न्
सह᳓स्रधारः पवते म᳓दाय
नृ᳓भि स्त᳓वानो अ᳓नु धा᳓म पू᳓र्वम्
अ᳓गन्न् इ᳓न्द्रम् महते᳓ सउ᳓भगाय

06 स्तोत्रे राये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोत्रे᳓ राये᳓ ह᳓रिर् अर्षा पुनान᳓
इ᳓न्द्रम् म᳓दो गछतु ते भ᳓राय
देवइ᳓र् याहि सर᳓थं रा᳓धो अ᳓छा
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः

07 प्र काव्यमुशनेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ का᳓वियम् उश᳓नेव ब्रुवाणो᳓
देवो᳓ देवा᳓नां ज᳓निमा विवक्ति
म᳓हिव्रतः शु᳓चिबन्धुः पवाकः᳓+
पदा᳓ वराहो᳓ अभि᳓ एति रे᳓भन्

08 प्र हंसासस्तृपलम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ हंसा᳓सस् तृप᳓लम् मन्यु᳓म् अ᳓छ
अमा᳓द् अ᳓स्तं वृ᳓षगणा अयासुः
आङ्गूषि᳓यम् प᳓वमानं स᳓खायो
दुर्म᳓र्षं साक᳓म् प्र᳓ वदन्ति वाण᳓म्

09 स रंहत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ रंहत उरुगाय᳓स्य जूतिं᳓
वृ᳓था क्री᳓ळन्तम् मिमते न᳓ गा᳓वः
परीणसं᳓ कृणुते तिग्म᳓शृङ्गो
दि᳓वा ह᳓रिर् द᳓दृशे न᳓क्तम् ऋज्रः᳓

10 इन्दुर्वाजी पवते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दुर् वाजी᳓ पवते गो᳓निओघा
इ᳓न्द्रे सो᳓मः स᳓ह इ᳓न्वन् म᳓दाय
ह᳓न्ति र᳓क्षो बा᳓धते प᳓र्य् अ᳓रातीर्
व᳓रिवः कृण्व᳓न् वृज᳓नस्य रा᳓जा

11 अध धारया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध धा᳓रया म᳓धुवा पृचान᳓स्
तिरो᳓ रो᳓म पवते अ᳓द्रिदुग्धः
इ᳓न्दुर् इ᳓न्द्रस्य सखियं᳓ जुषाणो᳓
देवो᳓ देव᳓स्य मत्सरो᳓ म᳓दाय

12 अभि प्रियाणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ प्रिया᳓णि पवते पुनानो᳓
देवो᳓ देवा᳓न् स्वे᳓न र᳓सेन पृञ्च᳓न्
इ᳓न्दुर् ध᳓र्माणि ऋतुथा᳓ व᳓सानो
द᳓श क्षि᳓पो अव्यत सा᳓नो अ᳓व्ये

13 वृषा शोणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा शो᳓णो अभिक᳓निक्रदद् गा᳓
नद᳓यन्न् एति पृथिवी᳓म् उत᳓ द्या᳓म्
इ᳓न्द्रस्येव वग्नु᳓र् आ᳓ शृण्व आजउ᳓
प्रचेत᳓यन्न् अर्षति वा᳓चम् ए᳓मा᳓म्

14 रसाय्यः पयसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रसा᳓यियः प᳓यसा पि᳓न्वमान
ईर᳓यन्न् एषि म᳓धुमन्तम् अंशु᳓म्
प᳓वमानः संतनि᳓म् एषि कृण्व᳓न्न्
इ᳓न्द्राय सोम परिषिच्य᳓मानः

15 एवा पवस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ पवस्व मदिरो᳓ म᳓दाय
उदग्राभ᳓स्य नम᳓यन् वधस्नइः᳓
प᳓रि व᳓र्णम् भ᳓रमाणो रु᳓शन्तं
गव्यु᳓र् नो अर्ष प᳓रि सोम सिक्तः᳓

16 जुष्थ्वी न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जुष्ट्वी᳓ न इन्दो सुप᳓था सुगा᳓नि
उरउ᳓ पवस्व व᳓रिवांसि कृण्व᳓न्
घने᳓व वि᳓ष्वग् दुरिता᳓नि विघ्न᳓न्न्
अ᳓धि ष्णु᳓ना धनुव सा᳓नो अ᳓व्ये

17 वृष्थिं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृष्टिं᳓ नो अर्ष दिवियां᳓ जिगत्नु᳓म्
इ᳓ळावतीं शंग᳓यीं जीर᳓दानुम्
स्तु᳓केव वीता᳓ धनुवा विचिन्व᳓न्
ब᳓न्धूँर् इमाँ᳓ अ᳓वराँ इन्दो वायू᳓न्

18 ग्रन्थिं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रन्थिं᳓ न᳓ वि᳓ ष्य ग्रथित᳓म् पुनान᳓
ऋजुं᳓ च गातुं᳓ वृजिनं᳓ च सोम
अ᳓त्यो न᳓ क्रदो ह᳓रिर् आ᳓ सृजानो᳓
म᳓र्यो देव धनुव पस्ति᳓यावान्

19 जुष्थो मदाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जु᳓ष्टो म᳓दाय देव᳓तात इन्दो
प᳓रि ष्णु᳓ना धनुव सा᳓नो अ᳓व्ये
सह᳓स्रधारः सुरभि᳓र् अ᳓दब्धः
प᳓रि स्रव वा᳓जसातौ नृष᳓ह्ये

20 अरश्मानो येऽरथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अरश्मा᳓नो ये᳓ अरथा᳓ अ᳓युक्ता
अ᳓त्यासो न᳓ ससृजाना᳓स आजउ᳓
एते᳓ शुक्रा᳓सो धनुवन्ति सो᳓मा
दे᳓वासस् ताँ᳓ उ᳓प याता पि᳓बध्यै

21 एवा न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ न इन्दो अभि᳓ देव᳓वीतिम्
प᳓रि स्रव न᳓भो अ᳓र्णश् चमू᳓षु
सो᳓मो अस्म᳓भ्यं का᳓मियम् बृह᳓न्तं
रयिं᳓ ददातु वीर᳓वन्तम् उग्र᳓म्

22 तक्षद्यदी मनसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓क्षद् य᳓दी म᳓नसो वे᳓नतो वा᳓ग्
ज्ये᳓ष्ठस्य वा ध᳓र्मणि क्षो᳓र् अ᳓नीके
आ᳓द् ईम् आयन् व᳓रम् आ᳓ वावशाना᳓
जु᳓ष्टम् प᳓तिं कल᳓शे गा᳓व इ᳓न्दुम्

23 प्र दानुदो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ दानुदो᳓ दिवियो᳓ दानुपिन्व᳓
ऋत᳓म् ऋता᳓य पवते सुमेधाः᳓
धर्मा᳓ भुवद् वृजनि᳓यस्य रा᳓जा
प्र᳓ रश्मि᳓भिर् दश᳓भिर् भारि भू᳓म

24 पवित्रेभिः पवमानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पवि᳓त्रेभिः प᳓वमानो नृच᳓क्षा
रा᳓जा देवा᳓नाम् उत᳓ म᳓र्तियानाम्
द्विता᳓ भुवद् रयिप᳓ती रयीणा᳓म्
ऋत᳓म् भरत् सु᳓भृतं चा᳓रु इ᳓न्दुः

25 अर्वाँ इव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्वाँ इव श्र᳓वसे साति᳓म् अ᳓छ
इ᳓न्द्रस्य वायो᳓र् अभि᳓ वीति᳓म् अर्ष
स᳓ नः सह᳓स्रा बृहती᳓र् इ᳓षो दा
भ᳓वा सोम द्रविणोवि᳓त् पुनानः᳓

26 देवाव्यो नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवावि᳓यो नः परिषिच्य᳓मानाः
क्ष᳓यं सुवी᳓रं धनुवन्तु सो᳓माः
आयज्य᳓वः सुमतिं᳓ विश्व᳓वारा
हो᳓तारो न᳓ दिविय᳓जो मन्द्र᳓तमाः

27 एवा देव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ देव देव᳓ताते पवस्व
महे᳓ सोम प्स᳓रसे देवपा᳓नः
मह᳓श् चिद् धि᳓ ष्म᳓सि हिताः᳓ समर्ये᳓
कृधि᳓ सुष्ठाने᳓ रो᳓दसी पुनानः᳓

28 अश्वो नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वो न᳓ क्रदो वृ᳓षभिर् युजानः᳓
सिंहो᳓ न᳓ भीमो᳓ म᳓नसो ज᳓वीयान्
अर्वाची᳓नैः पथि᳓भिर् ये᳓ र᳓जिष्ठा
आ᳓ पवस्व सौमनसं᳓ न इन्दो

29 शतं धारा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं᳓ धा᳓रा देव᳓जाता असृग्रन्
सह᳓स्रम् एनाः कव᳓यो मृजन्ति
इ᳓न्दो सनि᳓त्रं दिव᳓ आ᳓ पवस्व
पुरएता᳓सि महतो᳓ ध᳓नस्य

30 दिवो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो᳓ न᳓ स᳓र्गा अससृग्रम् अ᳓ह्नां
रा᳓जा न᳓ मित्र᳓म् प्र᳓ मिनाति धी᳓रः
पितु᳓र् न᳓ पुत्रः᳓ क्र᳓तुभिर् यतान᳓
आ᳓ पवस्व विशे᳓ अस्या᳓ अ᳓जीतिम्

31 प्र ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ते धा᳓रा म᳓धुमतीर् असृग्रन्
वा᳓रान् य᳓त् पूतो᳓ अतिए᳓षि अ᳓व्यान्
प᳓वमान प᳓वसे धा᳓म गो᳓नां
जज्ञानः᳓ सू᳓रियम् अपिन्वो अर्कइः᳓

32 कनिक्रददनु पन्थामृतस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓निक्रदद् अ᳓नु प᳓न्थाम् ऋत᳓स्य
शुक्रो᳓ वि᳓ भासि अमृ᳓तस्य धा᳓म
स᳓ इ᳓न्द्राय पवसे मत्सर᳓वान्
हिन्वानो᳓ वा᳓चम् मति᳓भिः कवीना᳓म्

33 दिव्यः सुपर्णोऽव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दिव्यः᳓ सुपर्णो᳓ अ᳓व चक्षि सोम
पि᳓न्वन् धा᳓राः क᳓र्मणा देव᳓वीतौ
ए᳓न्दो विश कल᳓शं सोमधा᳓नं
क्र᳓न्दन्न् इहि सू᳓रियस्यो᳓प रश्मि᳓म्

34 तिस्रो वाच - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो᳓ वा᳓च ईरयति प्र᳓ व᳓ह्निर्
ऋत᳓स्य धीति᳓म् ब्र᳓ह्मणो मनीषा᳓म्
गा᳓वो यन्ति गो᳓पतिम् पृछ᳓मानाः
सो᳓मं यन्ति मत᳓यो वावशानाः᳓

35 सोमं गावो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मं गा᳓वो धेन᳓वो वावशानाः᳓
सो᳓मं वि᳓प्रा मति᳓भिः पृछ᳓मानाः
सो᳓मः सुतः᳓ पूयते अज्य᳓मानः
सो᳓मे अर्का᳓स् त्रिष्टु᳓भः सं᳓ नवन्ते

36 एवा नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ नः सोम परिषिच्य᳓मान
आ᳓ पवस्व पूय᳓मानः सुअस्ति᳓
इ᳓न्द्रम् आ᳓ विश बृहता᳓ र᳓वेण
वर्ध᳓या वा᳓चं जन᳓या पु᳓रंधिम्

37 आ जागृविर्विप्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ जा᳓गृविर् वि᳓प्र ऋता᳓ मतीनां᳓
सो᳓मः पुनानो᳓ असदच् चमू᳓षु
स᳓पन्ति य᳓म् मिथुना᳓सो नि᳓कामा
अध्वर्य᳓वो रथिरा᳓सः सुह᳓स्ताः

38 स पुनान - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ पुनान᳓ उ᳓प सू᳓रे न᳓ धा᳓ता
ओ᳓भे᳓ अप्रा रो᳓दसी वि᳓ ष᳓ आवः
प्रिया᳓ चिद् य᳓स्य प्रियसा᳓स ऊती᳓
स᳓ तू᳓ ध᳓नं कारि᳓णे न᳓ प्र᳓ यंसत्

39 स वर्धिता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वर्धिता᳓ व᳓र्धनः पूय᳓मानः
सो᳓मो मीढ्वाँ᳓ अभि᳓ नो ज्यो᳓तिषावीत्
ये᳓ना नः पू᳓र्वे पित᳓रः पदज्ञाः᳓
सुवर्वि᳓दो अभि᳓ गा᳓ अ᳓द्रिम् उष्ण᳓न्

40 अक्रान्त्समुद्रः प्रथमे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓क्रान्+++(=अतिक्रामति)+++ त्समुद्रः᳓+++(=सम् + उन्द क्लेदने + रा + क)+++ प्रथमे᳓ वि᳓धर्मञ् +++(=विधाराः)+++
जन᳓यन् प्रजा᳓+++(ः)+++, भु᳓वनस्य रा᳓जा +++(गोपाः इति साम्नि)+++ ।
वृ᳓षा पवि᳓त्रे अ᳓धि सा᳓नो +++(=समुच्छ्रिते)+++ अ᳓व्ये
बृह᳓त् सो᳓मो वावृधे सुवान᳓ इ᳓न्दुः +++(=अद्रिः इति साम्नि?)+++ ४०

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न्
ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः।
वृ꣡᳓षा꣢᳓ प꣣᳓वि꣢᳓त्रे꣣᳓ अ꣢᳓धि꣣᳓ सा꣢᳓नो꣣᳓
अ꣡᳓व्ये꣢᳓ बृ꣣᳓ह꣡᳓त्सो᳓मो꣢꣯᳓ वा᳓वृ᳓धे᳓ स्वा꣣᳓नो꣡᳓ अ᳓द्रिः꣢꣯᳓ ॥1 ॥

41 महत्तत्सोमो महिषश्चकारापाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मह᳓त् त᳓त् +++(कर्म)+++ सो᳓मो महिष᳓श् +++(=महान्)+++ चकाराऽपां᳓ य᳓द्ग᳓र्भो᳓ऽवृणीत देवा᳓न् ।

अ᳓दधादि᳓न्द्रे प᳓वमान ओ᳓जो᳓ ऽजनयत् सू᳓र्ये ज्यो᳓तिरि᳓न्दुः +++(=सोमो दीप्तः)+++। ४१

42 मत्सि वायुमिष्थये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓त्सि+++(=मादयसि)+++ वायु᳓मिष्ट᳓ये रा᳓धसे च +++(=राधसे नः इति साम्नि)+++ म᳓त्सि मित्रा᳓व᳓रुणा पूय᳓मानः ।
म᳓त्सि श᳓र्धो मा᳓रुतं म᳓त्सि देवा᳓न् म᳓त्सि द्या᳓वापृथिवी᳓ देव सोम ४२

43 ऋजुः पवस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋजुः᳓ पवस्व वृजिन᳓स्य हन्ता᳓
अ᳓पा᳓मीवाम् बा᳓धमानो मृ᳓धश् च
अभिश्रीण᳓न् प᳓यः प᳓यसाभि᳓ गो᳓नाम्
इ᳓न्द्रस्य त्वं᳓ त᳓व वयं᳓ स᳓खायः

44 मध्वः सूदम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓ध्वः सू᳓दम् पवस्व व᳓स्व उ᳓त्सं
वीरं᳓ च न आ᳓ पवस्वा भ᳓गं च
स्व᳓दस्वे᳓न्द्राय प᳓वमान इन्दो
रयिं᳓ च न आ᳓ पवस्वा समुद्रा᳓त्

45 सोमः सुतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मः सुतो᳓ धा᳓रया᳓त्यो न᳓ हि᳓त्वा
सि᳓न्धुर् न᳓ निम्न᳓म् अभि᳓ वाजी᳓ अक्षाः
आ᳓ यो᳓निं व᳓न्यम् असदत् पुनानः᳓
स᳓म् इ᳓न्दुर् गो᳓भिर् असरत् स᳓म् अद्भिः᳓

46 एष स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ स्य᳓ ते पवत इन्द्र सो᳓मश्
चमू᳓षु धी᳓र उशते᳓ त᳓वस्वान्
सु᳓वर्चक्षा रथिरः᳓ सत्य᳓शुष्मः
का᳓मो न᳓ यो᳓ देवयता᳓म् अ᳓सर्जि

47 एष प्रत्नेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ प्रत्ने᳓न व᳓यसा पुनान᳓स्
तिरो᳓ व᳓र्पांसि दुहितु᳓र् द᳓धानः
व᳓सानः श᳓र्म त्रिव᳓रूथम् अप्सु᳓
हो᳓तेव याति स᳓मनेषु रे᳓भन्

48 नू नस्त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ नस् तुवं᳓ रथिरो᳓ देव सोम
प᳓रि स्रव चमु᳓वोः पूय᳓मानः
अप्सु᳓ स्वा᳓दिष्ठो म᳓धुमाँ ऋता᳓वा
देवो᳓ न᳓ यः᳓ सविता᳓ सत्य᳓मन्मा

49 अभि वायुम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ वायुं᳓ वीत्य्+++((त्यै)=पानाय)+++ अ᳙र्षा+++(=गच्छ)+++ गृणानो३᳓+++(=स्तूयमानः)+++
ऽभि᳓ मित्रा᳓व᳓रुणा पूय᳓मानः ।
अभी᳓ न᳓रं+++(=नेतारं)+++ धीज᳓वनं+++(=धीजवं)+++ रथेष्ठा᳓म्+++(अश्वियुग्मम्)+++ अभी᳓न्द्रं वृ᳓षणं व᳓ज्रबाहुम् ॥

50 अभि वस्त्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ व᳓स्त्रा सुवसना᳓न्यर्षाभि᳓ धेनूः᳓ सुदु᳓घाः पूय᳓मानः ।
अभि᳓ चन्द्रा᳓+++(=ह्लादका)+++ भ᳓र्तवे+++(=भरणाय)+++ नो हि᳓रण्याभ्य᳓श्वान्रथि᳓नो देव सोम ॥

51 अभी नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभी᳓ नो अर्ष दिविया᳓ व᳓सूनि
अभि᳓ वि᳓श्वा पा᳓र्थिवा पूय᳓मानः
अभि᳓ ये᳓न द्र᳓विणम् अश्न᳓वाम
अभि᳓ आर्षेयं᳓ जमदग्निव᳓न् नः

52 अया पवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अया᳓ पवा᳓ पवस्वैना᳓ व᳓सूनि
माँश्चत्व᳓ इन्दो स᳓रसि प्र᳓ धन्व
ब्रध्न᳓श् चिद् अ᳓त्र वा᳐᳓तो न᳓ जूतः᳓
पुरुमे᳓धश् चित् त᳓कवे न᳓रं दात्

53 उत न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ न एना᳓ पवया᳓ पवस्व
अ᳓धि श्रुते᳓ श्रवा᳓यियस्य तीर्थे᳓
षष्टिं᳓ सह᳓स्रा नैगुतो᳓ व᳓सूनि
वृक्षं᳓ न᳓ पक्वं᳓ धूनवद् र᳓णाय

54 महीमे अस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓हीमे᳓ अस्य वृ᳓षना᳓म शूषे᳓
माँ᳓श्चत्वे वा पृ᳓शने वा व᳓धत्रे
अ᳓स्वापयन् निगु᳓तः स्नेह᳓यच् च
अ᳓पामि᳓त्राँ अ᳓पाचि᳓तो अचेतः᳓

55 सं त्री - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ त्री᳓ पवि᳓त्रा वि᳓ततानि एषि
अ᳓नु ए᳓कं धावसि पूय᳓मानः
अ᳓सि भ᳓गो अ᳓सि दात्र᳓स्य दाता᳓
अ᳓सि मघ᳓वा मघ᳓वद्भ्य इन्दो

56 एष विश्ववित्पवते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ विश्ववि᳓त् पवते मनीषी᳓
सो᳓मो वि᳓श्वस्य भु᳓वनस्य रा᳓जा
द्रप्साँ᳓ ईर᳓यन् विद᳓थेषु इ᳓न्दुर्
वि᳓ वा᳓रम् अ᳓व्यं सम᳓या᳓ति याति

57 इन्दुं रिहन्ति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दुं रिहन्ति महिषा᳓ अ᳓दब्धाः
पदे᳓ रेभन्ति कव᳓यो न᳓ गृ᳓ध्राः
हिन्व᳓न्ति धी᳓रा दश᳓भिः क्षि᳓पाभिः
स᳓म् अञ्जते रूप᳓म् अपां᳓ र᳓सेन

58 त्वया वयम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या वय᳓म् प᳓वमानेन सोम
भ᳓रे कृतं᳓ वि᳓ चिनुयाम श᳓श्वत्
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम्
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यउः᳓