०९६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सेनानीः’ इति चतुर्विंशत्यृचमेकादशं सूक्तं दिवोदासपुत्रस्य प्रतर्दनाख्यस्य राजर्षेरिदं त्रैष्टुभं पवमानसोमदेवताकम् । तथा चानुक्रम्यते-’ प्र सेनानीश्चतुर्विंशतिर्दैवोदासिः प्रतर्दनः’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

96 (808)
Soma Pavamāna
Pratardana Daivodāsi
24 verses: triṣṭubh
This twenty-four-verse hymn, immediately following three five-verse hymns in the same meter, can easily be made to fit the sequence if it is analyzed as consisting of a collection of four-verse hymns, as Oldenberg clearly states (1888: 201). The six hymns thus obtained show different degrees of internal cohesion.
For example, the first four verses display clear thematic unity and development. The first verse is explicitly martial, with Soma as a warrior about to charge, a pic ture continued in the following verse. In verse 3 he achieves one of the most desired results of Vedic warfare, wide space for us to inhabit, and with this obtained, verse 4 articulates a counter-message, that of peace and nonviolence. Indra is explicitly mentioned in the first three verses, and comradeship is a central theme, as is seen in verses 1, 2, and 4.
The second hymn (vss. 5–8) shows stylistic progression. It begins with a rhe torically restricted verse (5), consisting primarily of seven repetitions of the word “begetter” with different genitive complements. The next verse (6) continues the dominantly nominal construction of vs. 5, but with a more varied verbal repertoire, though the nominative-genitive syntagm persists. Verse 7 continues to describe the qualities and characteristic actions of Soma, in the 3rd person, though it abandons the strict nominal style. And finally vs. 8 breaks out into the dynamic 2nd person and imperative mood.
The third group (vss. 9–12) ends with a characteristic hymn-final summary verse, which seems to mark a decisive break from what follows. Although no clear the matic unity imposes itself on the four verses, the focus on Soma’s relationship with our ancestral ritualists and our hope that this relationship will continue fruitfully is noticeable, especially in the last two verses (11–12). On the other hand, it is difficult to identify any unifying features in the next group of four (vss. 13–16), which con sist primarily of standard soma-hymn tropes. In verses 17–20 Soma as poet (esp. in vss. 17–18) and his journey from the filter to the cups provide a weak cohesion. In the final group (vss. 21–24), three verses (22–24) contain courtship imagery, and the root krand “roar” is prominent.

Jamison Brereton Notes

On the structure of this hymn, see published introduction. Although the larger structure involves a series of independent four-vs. hymns, there are a number of echoes across these hymns, noted below, that may have influenced their being grouped together

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 प्र सेनानीः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सेनानीः᳓ शू᳓रो अ᳓ग्रे र᳓थानां
गव्य᳓न्न् एति ह᳓र्षते अस्य से᳓ना
भद्रा᳓न् कृण्व᳓न्न् इन्द्रहवा᳓न् स᳓खिभ्य
आ᳓ सो᳓मो व᳓स्त्रा रभसा᳓नि दत्ते

02 समस्य हरिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् अस्य ह᳓रिं ह᳓रयो मृजन्ति
अश्वहयइ᳓र् अ᳓निशितं न᳓मोभिः
आ᳓ तिष्ठति र᳓थम् इ᳓न्द्रस्य स᳓खा
विद्वाँ᳓ एना सुमतिं᳓ याति अ᳓छ

03 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो देव देव᳓ताते पवस्व
महे᳓ सोम प्स᳓रस इन्द्रपा᳓नः
कृण्व᳓न्न् अपो᳓ वर्ष᳓यन् द्या᳓म् उते᳓मा᳓म्
उरो᳓र् आ᳓ नो वरिवस्या पुनानः᳓

04 अजीतयेऽहतये पवस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓जीतये अ᳓हतये पवस्व
स्वस्त᳓ये सर्व᳓तातये बृहते᳓
त᳓द् उशन्ति वि᳓श्व इमे᳓ स᳓खायस्
त᳓द् अहं᳓ वश्मि पवमान सोम

05 सोमः पवते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मः पवते +++(=पात्रेषु क्षरति)+++ जनिता᳓ मतीनां᳓
जनिता᳓ दिवो᳓ जनिता᳓ पृथिव्याः᳓ ।
जनिता᳓ग्ने᳓र् जनिता᳓ सू᳓र्यस्य
+++(द्युः, पृथिवी, पृथिव्या ज्योतिः, दिवो ज्योतिर् इति चारु क्रमः!)+++
जनिते᳓न्द्रस्य जनितो᳓त᳓ वि᳓ष्णोः ५
+++(इत्थं पवमानस्य सोमस्य महज्जनकता प्रोक्ता!)+++

06 ब्रह्मा देवानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मा᳓ देवा᳓नां, पदवीः᳓+++(=पद्धति-कृत्)+++ कवीना᳓म्
ऋ᳓षिर्वि᳓प्राणां महिषो᳓ मृगा᳓णाम् ।
श्येनो᳓ गृ᳓ध्राणां स्व᳓धितिर् +++(=परशुः/ वज्रः)+++ व᳓नानां +++(=हिंसकानां)+++
+++(ब्रह्मा, कवयः, ऋषयः इति चारु क्रमः। महिषः, श्योनः, वना इत्यपि। वज्रो वै स्वधितिः इति श्रुतौ दृश्यते।)+++
सो᳓मः पवि᳓त्रम᳓त्येति रे᳓भन् +++(=शब्दायमानः)+++ ६

07 प्रावीविपद्वाच ऊर्मिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रा᳓वीविपद् +++(=प्रावेपयत् / प्रेरयत्)+++ वाच᳓ ऊर्मिं᳓ न᳓ सि᳓न्धुर्
गि᳓रः सो᳓मः+++(सामवेदे भेदोऽत्र)+++ प᳓वमानो मनीषाः᳓ +++(=हृदयङ्गमाः)+++ ।
अन्तः᳓ प᳓श्यन् वृज᳓ना+++(=बलानि)++++इमा᳓ऽवराण्य्
आ᳓तिष्ठति वृषभो᳓ गो᳓षु जान᳓न् ७

08 स मत्सरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मत्सरः᳓ पृत्सु᳓ वन्व᳓न्न् अ᳓वातः
सह᳓स्ररेता अभि᳓ वा᳓जम् अर्ष
इ᳓न्द्रायेन्दो प᳓वमानो मनीषी᳓
अंशो᳓र् ऊर्मि᳓म् ईरय गा᳓ इषण्य᳓न्

09 परि प्रियः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि प्रियः᳓ कल᳓शे देव᳓वात
इ᳓न्द्राय सो᳓मो र᳓णियो म᳓दाय
सह᳓स्रधारः शत᳓वाज इ᳓न्दुर्
वाजी᳓ न᳓ स᳓प्तिः स᳓मना जिगाति

10 स पूर्व्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ पूर्वियो᳓ वसुवि᳓ज् जा᳓यमानो
मृजानो᳓ अप्सु᳓ दुदुहानो᳓ अ᳓द्रौ
अभिशस्तिपा᳓ भु᳓वनस्य रा᳓जा
विद᳓द् गातु᳓म् ब्र᳓ह्मणे पूय᳓मानः

11 त्वया हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या हि᳓ नः पित᳓रः सोम पू᳓र्वे
क᳓र्माणि चक्रुः᳓ पवमान धी᳓राः
वन्व᳓न्न् अ᳓वातः परिधीँ᳓र् अ᳓पोर्णु
वीरे᳓भिर् अ᳓श्वैर् मघ᳓वा भवा नः

12 यथापवथा मनवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था᳓पवथा म᳓नवे वयोधा᳓
अमित्रहा᳓ वरिवोवि᳓द् धवि᳓ष्मान्
एवा᳓ पवस्व द्र᳓विणं द᳓धान
इ᳓न्द्रे सं᳓ तिष्ठ जन᳓या᳓युधानि

13 पवस्व सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्व सोम म᳓धुमाँ+++(=मदकररसोपेतः)+++ ऋता᳓वा᳓+++(=यज्ञवान्)+++
+आपो᳓ व᳓सानो अ᳓धि सा᳓नो अ᳓व्ये ।
अ᳓व द्रो᳓णानि घृत᳓वान्ति सीद मदि᳓न्तमो मत्सर᳓ इन्द्रपा᳓नः ॥

14 वृष्थिं दिवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृष्टिं᳓ दिवः᳓ शत᳓धारः पवस्व
सहस्रसा᳓ वाजयु᳓र् देव᳓वीतौ
सं᳓ सि᳓न्धुभिः कल᳓शे वावशानः᳓
स᳓म् उस्रि᳓याभिः प्रतिर᳓न् न आ᳓युः

15 एष स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ स्य᳓ सो᳓मो मति᳓भिः पुनानो᳓
अ᳓त्यो न᳓ वाजी᳓ त᳓रती᳓द् अ᳓रातीः
प᳓यो न᳓ दुग्ध᳓म् अ᳓दितेर् इषिर᳓म्
उर्व् इ᳡व गातुः᳓ सुय᳓मो न᳓ वो᳓ळ्हा

16 स्वायुधः सोतृभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुआयुधः᳓ सोतृ᳓भिः पूय᳓मानो
अभि᳓ अर्ष गु᳓हियं चा᳓रु ना᳓म
अभि᳓ वा᳓जं स᳓प्तिर् इव श्रवस्या᳓
अभि᳓ वायु᳓म् अभि᳓ गा᳓ देव सोम

17 शिशुं जज्ञानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शि᳓शुं जज्ञानं᳓ हर्यत᳓म् मृजन्ति
शुम्भ᳓न्ति व᳓ह्निम् मरु᳓तो गणे᳓न
कवि᳓र् गीर्भिः᳓ का᳓वियेना कविः᳓ स᳓न्
सो᳓मः पवि᳓त्रम् अ᳓ति एति रे᳓भन्

18 ऋषिमना य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ᳓षिमना य᳓ ऋषिकृ᳓त् सुवर्षाः᳓
सह᳓स्रणीथः पदवीः᳓ कवीना᳓म्
तृती᳓यं धा᳓म महिषः᳓ सि᳓षासन्
सो᳓मो विरा᳓जम् अ᳓नु राजति ष्टु᳓प्

19 चमूषच्छ्येनः शकुनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चमूष᳓च् छ्येनः᳓ शकुनो᳓ विभृ᳓त्वा
गोविन्दु᳓र् द्रप्स᳓ आ᳓युधानि बि᳓भ्रत्
अपा᳓म् ऊर्मिं᳓ स᳓चमानः समुद्रं᳓
तुरी᳓यं धा᳓म महिषो᳓ विवक्ति

20 मर्यो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓र्यो न᳓ शुभ्र᳓स् तनु᳓वम् मृजानो᳓
अ᳓त्यो न᳓ सृ᳓त्वा सन᳓ये ध᳓नानाम्
वृ᳓षेव यूथा᳓ प᳓रि को᳓शम् अ᳓र्षन्
क᳓निक्रदच् चमु᳓वोर् आ᳓ विवेश

21 पवस्वेन्दो पवमानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्वेन्दो प᳓वमानो म᳓होभिः
क᳓निक्रदत् प᳓रि वा᳓राणि अर्ष
क्री᳓ळञ् चम्वो᳡र् आ᳓ विश पूय᳓मान
इ᳓न्द्रं ते र᳓सो मदिरो᳓ ममत्तु

22 प्रास्य धारा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ अस्य धा᳓रा बृहती᳓र् असृग्रन्न्
अक्तो᳓ गो᳓भिः कल᳓शाँ आ᳓ विवेश
सा᳓म कृण्व᳓न् सामनि᳓यो विपश्चि᳓त्
क्र᳓न्दन्न् एति अभि᳓ स᳓ख्युर् न᳓ जामि᳓म्

23 अपघ्नन्नेषि पवमान - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपघ्न᳓न्न् एषि पवमान श᳓त्रून्
प्रियां᳓ न᳓ जारो᳓ अभि᳓गीत इ᳓न्दुः
सी᳓दन् व᳓नेषु शकुनो᳓ न᳓ प᳓त्वा
सो᳓मः पुनानः᳓ कल᳓शेषु स᳓त्ता

24 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते रु᳓चः प᳓वमानस्य सोम
यो᳓षेव यन्ति सुदु᳓घाः सुधाराः᳓
ह᳓रिर् आ᳓नीतः पुरुवा᳓रो अप्सु᳓
अ᳓चिक्रदत् कल᳓शे देवयूना᳓म्