०९५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘कनिक्रन्ति’ इति पञ्चर्चं दशमं सूक्तं कण्वपुत्रस्य प्रस्कवस्यार्षम् । तथानुक्रम्यते— कनिक्रन्ति प्रस्कण्वः’ इति । पूर्ववच्छन्दोदेवते । गतो विनियोगः ॥

Jamison Brereton

95 (807)
Soma Pavamāna
Praskaṇva Kāṇva
5 verses: triṣṭubh
As in the preceding hymn, IX.94, the complementarity and interaction between Soma’s poetic efforts and those of the ritualists provide the subject of this hymn. Soma’s speech is the topic of the first two verses, culminating in 2cd in his revelation of the “hidden names of the gods” that will be proclaimed aloud on the ritual ground. But the verbal compositions of the mortals take center stage in verses 3–4. In the final verse (5), Soma both prompts the speech of others and (it seems) produces his own.

Jamison Brereton Notes

This hymn is attributed to Praskaṇva Kāṇva, the poet of I.44-50, the group of hymns that follow those of Kaṇva Ghaura, the poet of immediately preceding IX.94.

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 कनिक्रन्ति हरिरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓निक्रन्ति ह᳓रिर् आ᳓ सृज्य᳓मानः
सी᳓दन् व᳓नस्य जठ᳓रे पुनानः᳓
नृ᳓भिर् यतः᳓ कृणुते निर्णि᳓जं गा᳓
अ᳓तो मती᳓र् जनयत स्वधा᳓भिः

02 हरिः सृजानः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓रिः सृजानः᳓ पथि᳓याम् ऋत᳓स्य
इ᳓यर्ति वा᳓चम् अरिते᳓व ना᳓वम्
देवो᳓ देवा᳓नां गु᳓हियानि ना᳓म
आवि᳓ष् कृणोति बर्हि᳓षि प्रवा᳓चे

03 अपामिवेदूर्मयस्तर्तुराणाः प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपा᳓म् इवे᳓द् ऊर्म᳓यस् त᳓र्तुराणाः
प्र᳓ मनीषा᳓ ईरते सो᳓मम् अ᳓छ
नमस्य᳓न्तीर् उ᳓प च य᳓न्ति सं᳓ च
आ᳓ च विशन्ति उशती᳓र् उश᳓न्तम्

04 तं ममृड़्जानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् मर्मृजान᳓म् महिषं᳓ न᳓ सा᳓ना
अंशुं᳓ दुहन्ति उक्ष᳓णं गिरिष्ठा᳓म्
तं᳓ वावशान᳓म् मत᳓यः सचन्ते
त्रितो᳓ बिभर्ति व᳓रुणं समुद्रे᳓

05 इष्यन्वाचमुपवक्तेव होतुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓ष्यन् वा᳓चम् उपवक्ते᳓व हो᳓तुः
पुनान᳓ इन्दो वि᳓ षिया मनीषा᳓म्
इ᳓न्द्रश् च य᳓त् क्ष᳓यथः सउ᳓भगाय
सुवी᳓रियस्य प᳓तयः सियाम