०९४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अधि यत्’ इति पञ्चर्चं नवमं सूक्तमाङ्गिरसस्य कण्वस्यार्षम् । तथानुक्रम्यते—- अधि यत्कण्वः’ इति । पूर्ववच्छन्दोदेवते । गतो विनियोगः ॥

Jamison Brereton

94 (806)
Soma Pavamāna
Kaṇva Ghaura
5 verses: triṣṭubh
The word sóma does not appear until the last pāda (5d) of this hymn, which plots a sometimes difficult course to this ending. The hymn features similes that exploit idi omatic ambiguity to produce different meanings in the simile proper and the frame (see esp. vss. 1 and 3) and by obscure turns of phrase (see esp. 4d). It is therefore not surprising that, as in IX.92, Soma is identified as a kaví, a poet, enmeshed in poetry (vs. 3), and the main focus of the hymn, especially in the first three verses, is the interchange between the poetic products of the mortal participants in ritual and those of Soma himself.

Jamison Brereton Notes

This hymn is attributed to Kaṇva Ghaura, the poet of I.36-43.

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 अधि यदस्मिन्वाजिनीव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि य᳓द् अस्मिन् वाजि᳓नीव शु᳓भ
स्प᳓र्धन्ते धि᳓यः सू᳓रिये न᳓ वि᳓शः
अपो᳓ वृणानः᳓ पवते कवीय᳓न्
व्रजं᳓ न᳓ पशुव᳓र्धनाय म᳓न्म

02 द्विता व्यूर्ण्वन्नमृतस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्विता᳓ विऊर्ण्व᳓न्न् अमृ᳓तस्य धा᳓म
सुवर्वि᳓दे भु᳓वनानि प्रथन्त
धि᳓यः पिन्वानाः᳓ स्व᳓सरे न᳓ गा᳓व
ऋताय᳓न्तीर् अभि᳓ वावश्र इ᳓न्दुम्

03 परि यत्कविः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि य᳓त् कविः᳓ का᳓विया भ᳓रते
शू᳓रो न᳓ र᳓थो भु᳓वनानि वि᳓श्वा
देवे᳓षु य᳓शो म᳓र्तिआय° भू᳓षन्
द᳓क्षाय रायः᳓ पुरुभू᳓षु न᳓व्यः

04 श्रिये जातः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रिये᳓ जातः᳓, श्रिय᳓ आ᳓ नि᳓रियाय
श्रि᳓यं व᳓यो+++(=अन्नम्)+++ जरितृ᳓भ्यो दधाति
श्रि᳓यं व᳓साना अ-मृतत्व᳓म् आयन्
भ᳓वन्ति सत्या᳓ समिथा᳓+++(=युद्धानि)+++ मित᳓-द्रौ+++(←द्रु)+++ +++(सोमे)+++ ॥

05 इषमूर्जमभ्यट्र्षाश्वं गामुरु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓षम् ऊ᳓र्जम् अभि᳓ अर्षा᳓शुवं गा᳓म्
उरु᳓ ज्यो᳓तिः कृणुहि म᳓त्सि देवा᳓न्
वि᳓श्वानि हि᳓ सुष᳓हा ता᳓नि तु᳓भ्यम्
प᳓वमान बा᳓धसे सोम श᳓त्रून्