०९२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘परि सुवानः’ इति षडृचं सप्तमं सूक्तं मारीचस्य कश्यपस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । ‘ परि सुवानः’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

92 (804)
Soma Pavamāna
Kaśyapa Mārīca
6 verses: triṣṭubh
Like many hymns in the IXth Maṇḍala this hymn describes Soma’s journey, but here the focus is on the endpoint, on Soma’s reaching his goal and taking his seat in the vessels: the “seat” theme is found in three of the six verses (2, 3, 6). Soma is also a poet (vs. 2) and surrounded by poetry (vs. 3). It is this association with the kaví, the sage poet and master of words, that probably prompted the most striking statement in the hymn, that all the gods are “in your secret” (vs. 4). This statement comes in the middle of the hymn and may constitute a weak omphalos, especially as it is embedded in a series of verses that play with numbers (2–4), often a sign of an omphalos structure.

Jamison Brereton Notes

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 परि सुवानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि स्वानो᳓° ह᳓रिर् अंशुः᳓ पवि᳓त्रे
र᳓थो न᳓ सर्जि सन᳓ये हियानः᳓
आ᳓पच् छ्लो᳓कम् इन्द्रिय᳓म् पूय᳓मानः
प्र᳓ति देवाँ᳓ अजुषत प्र᳓योभिः

02 अच्छा नृचक्षा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा नृच᳓क्षा असरत् पवि᳓त्रे
ना᳓म द᳓धानः कवि᳓र् अस्य यो᳓नौ
सी᳓दन् हो᳓तेव स᳓दने चमू᳓षु
उ᳓पेम् अग्मन्न् ऋ᳓षयः सप्त᳓ वि᳓प्राः

03 प्र सुमेधा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सुमेधा᳓ गातुवि᳓द् विश्व᳓देवः
सो᳓मः पुनानः᳓ स᳓द एति नि᳓त्यम्
भु᳓वद् वि᳓श्वेषु का᳓वियेषु र᳓न्ता
अ᳓नु ज᳓नान् यतते प᳓ञ्च धी᳓रः

04 तव त्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व त्ये᳓ सोम पवमान निण्ये᳓
वि᳓श्वे देवा᳓स् त्र᳓य एकादशा᳓सः
द᳓श स्वधा᳓भिर् अ᳓धि सा᳓नो अ᳓व्ये
मृज᳓न्ति त्वा नदि᳓यः सप्त᳓ यह्वीः᳓

05 तन्नु सत्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓न् नु᳓ सत्य᳓म् प᳓वमानस्य अस्तु
य᳓त्र वि᳓श्वे कार᳓वः संन᳓सन्त
ज्यो᳓तिर् य᳓द् अ᳓ह्ने अ᳓कृणोद् उलोक᳓म्†
प्रा᳓वन् म᳓नुं द᳓स्यवे कर् अभी᳓कम्

06 परि सद्मेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि स᳓द्मेव पशुमा᳓न्ति हो᳓ता
रा᳓जा न᳓ सत्यः᳓ स᳓मितीर् इयानः᳓
सो᳓मः पुनानः᳓ कल᳓शाँ अयासीत्
सी᳓दन् मृगो᳓ न᳓ महिषो᳓ व᳓नेषु