०९१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

तृतीयं श्रुतितत्वज्ञः सप्तमस्याष्टकस्य सः ।

व्याख्याय सायणामात्यश्चतुर्थं व्याचिकीर्षति ॥

तत्र ‘असर्जि’ इति षडृचं षष्ठं सूक्तं मारीचस्य कश्यपस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । ‘ असर्जि कश्यपः’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

91 (803)
Soma Pavamāna
Kaśyapa Mārīca
6 verses: triṣṭubh
The first three verses of this hymn concentrate on the journey of the soma across the filter toward the mixing milk and toward Indra, but the militancy characteristic of the previous hymn (IX.90) asserts itself in verse 4. The final two verses (5–6) ask for bounties and blessings in return for our verbal and ritual service.

Jamison Brereton Notes

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 असर्जि वक्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।
दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽज॑न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥

02 वीती जनस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिन्दुः॑ ।
प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥

03 वृषा वृष्णे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः ।
स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒ अण्वं॒ वि या॑ति ॥

04 रुजा दृळ्हा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां॑सि पुना॒न इ॑न्द ऊर्णुहि॒ वि वाजा॑न् ।
वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अन्ति॑ दू॒रादु॑पना॒यमे॑षाम् ॥

05 स प्रत्नवन्नव्यसे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ ।
ये दुः॒षहा॑सो व॒नुषा॑ बृ॒हन्त॒स्ताँस्ते॑ अश्याम पुरुकृत्पुरुक्षो ॥

06 एवा पुनानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ ।
शं नः॒ क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्नः॒ सूर्यं॑ दृ॒शये॑ रिरीहि ॥