०९०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र हिन्वानः’ इति षडृचं पञ्चमं सूक्तं मैत्रावरुणेर्वसिष्ठस्थार्षं त्रैष्टुभं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- प्र हिन्वानः षड्वसिष्ठः’ इति । गतो विनियोगः ।।

Jamison Brereton

90 (802)
Soma Pavamāna
Vasiṣṭha Maitrāvaruṇi
6 verses: triṣṭubh
Attributed to Vasiṣṭha, the poet of the VIIth Maṇḍala, this hymn ends (vs. 6d) with the Vasiṣṭha clan refrain, encountered constantly in VII. Martial images dominate, start ing with verse 1 and showcased especially in verse 3 (see also 4cd and 5ab). The aim of war, to secure peace and prosperity, is depicted in the center of the hymn (vs. 4ab). Some of the divine beneficiaries of Soma’s invigorating capability are listed in verse 5.

Jamison Brereton Notes

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 प्र हिन्वानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् ।
इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥

02 अभि त्रिपृष्टम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्रि॑पृ॒ष्ठं (=त्रिस्तोत्रम् त्रिसवनं वा) वृष॑णं (=वर्षकम्) वयो॒धाम् (=अन्नदम्)
आ॑ङ्गू॒षाणा॑म् (= आघोषवतां ([स्तोतॄणाम्])) अवावशन्त (=शब्दायन्ते) वाणीः ।
वना (=उदकानि) वसा॑नो वरु॑णो न सिन्धू॑न्(साम्नि विसर्गः)
वि र॑त्न॒धा द॑यते (=ददाति) वारि॑याणि (=धनानि) ।।

03 शूरग्रामः सर्ववीरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा॑वा॒ञ्जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि ।
ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥

04 उरुगव्यूतिरभयानि कृण्वन्त्समीचीने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी ।
अ॒पः सिषा॑सन्नु॒षसः॒ स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥

05 मत्सि सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु॑म् ।
मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा॑य ॥

06 एवा राजेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा राजे॑व॒ क्रतु॑माँ॒ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व ।
इन्दो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥