०८९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रो स्य वह्निः’ इति सप्तर्चं चतुर्थं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्रो स्य सप्त’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

89 (801)
Soma Pavamāna
Uśanas Kāvya
7 verses: triṣṭubh
The standard tropes of soma preparation, the swelling of Soma in water, his manipulation by the priests’ fingers, his journey across the filter, and his mixing with milk, provide the subject of this hymn, but, as often, each of these depic tions has a cosmic dimension—as in verses 1–2, where Soma is compared with heavenly rain.

Jamison Brereton Notes

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

087-089 ...{Loading}...

Jamison Brereton Notes

These three hymns are attributed to Uśanas Kāvya, probably on the basis of the mention of his name in 87.3.

01 प्रो स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रो स्य वह्निः॑ प॒थ्या॑भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः ।
स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥

02 राजा सिन्धूनामवसिष्थ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

राजा॒ सिन्धू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् ।
अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जाम् ॥

03 सिंहं नसन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सिं॒हं न॑सन्त॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पति॑म् ।
शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥

04 मधुपृष्टं घोरमयासमश्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् ।
स्वसा॑र ईं जा॒मयो॑ मर्जयन्ति॒ सना॑भयो वा॒जिन॑मूर्जयन्ति ॥

05 चतस्रईं घृतदुहः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने अ॒न्तर्ध॒रुणे॒ निष॑त्ताः ।
ता ई॑मर्षन्ति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वतः॒ परि॑ षन्ति पू॒र्वीः ॥

06 विष्थम्भो दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य ।
अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इन्द्रि॒याय॑ ॥

07 वन्वन्नवातो अभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिन्द्रा॑य सोम वृत्र॒हा प॑वस्व ।
श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥