०८४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पवस्व देवमादनः’ इति पञ्चर्चं सप्तदशं सूक्तं वाचः पुत्रस्य प्रजापतेरार्षं जागतं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- पवस्व वाच्यः प्रजापतिः’ इति । गतो विनियोगः ॥

Jamison Brereton

84 (796)
Soma Pavamāna
Prajāpati Vācya
5 verses: jagatī
Unlike the last hymn, this one concentrates on the preparation of the soma, and, although he has a cosmic dimension (see esp. vs. 2), it is always clear that Soma is the topic and the referent. The most interesting image is found in verse 2, where Soma “performs the knotting and unknotting.” On the ritual level, this phrase probably refers to Soma’s journey through the tangle of sheep’s wool on the filter, but comparison with IX.97.18 suggests that it also has moral force, with Soma separating and distinguishing the straight way from the crooked one.

Jamison Brereton Notes

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

01 पवस्व देवमादनो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्व देवमा᳓दनो वि᳓चर्षणिर्
अप्सा᳓ इ᳓न्द्राय व᳓रुणाय वाय᳓वे
कृधी᳓ नो अद्य᳓ व᳓रिवः सुअस्तिम᳓द्
उरुक्षितउ᳓ गृणीहि दइ᳓वियं ज᳓नम्

02 आ यस्तस्थौ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓स् तस्थउ᳓ भु᳓वनानि अ᳓मर्तियो
वि᳓श्वानि सो᳓मः प᳓रि ता᳓नि अर्षति
कृण्व᳓न् संचृ᳓तं विचृ᳓तम् अभि᳓ष्टय
इ᳓न्दुः सिषक्ति उष᳓सं न᳓ सू᳓रियः

03 आ यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यो᳓ गो᳓भिः सृज्य᳓त ओ᳓षधीषु आ᳓
देवा᳓नां सुम्न᳓ इष᳓यन्न् उ᳓पावसुः
आ᳓ विद्यु᳓ता पवते धा᳓रया सुत᳓
इ᳓न्द्रं सो᳓मो माद᳓यन् दइ᳓वियं ज᳓नम्

04 एष स्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ स्य᳓ सो᳓मः पवते सहस्रजि᳓द्
धिन्वानो᳓ वा᳓चम् इषिरा᳓म् उषर्बु᳓धम्
इ᳓न्दुः समुद्र᳓म् उ᳓द् इयर्ति वायु᳓भिर्
ए᳓न्द्रस्य हा᳓र्दि कल᳓शेषु सीदति

05 अभि त्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ त्यं᳓ गा᳓वः प᳓यसा पयोवृ᳓धं
सो᳓मं श्रीणन्ति मति᳓भिः सुवर्वि᳓दम्
धनंजयः᳓ पवते कृ᳓त्वियो र᳓सो
वि᳓प्रः कविः᳓ का᳓वियेना सु᳓वर्चनाः