०८०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सोमस्य धारा’ इति पञ्चर्चं त्रयोदशं सूक्तं भारद्वाजस्य वसुनाम्न आर्षं जागतं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- सोमस्य वसुर्भारद्वाजः’ इति । गतो विनियोगः ॥

Jamison Brereton

80 (792)
Soma Pavamāna
Vasu Bhāradvāja
5 verses: jagatī
On the one hand, this hymn is somewhat static, stuck at the same stage of soma’s preparation, as the almost exact responsion of the last two verses (4–5) emphasizes. On the other hand, Soma’s relationship with the gods, especially Indra, a relation ship that figures in every verse, enlarges the conceptual frame of the hymn and keeps it from seeming airless.

Jamison Brereton Notes

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

01 सोमस्य धारा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ ।
बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥

02 यं त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् ।
म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इन्द्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥

03 एन्द्रस्य कुक्षा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा॑नः॒ श्रव॑से सुम॒ङ्गलः॑ ।
प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यन्दते॒ वृषा॑ ॥

04 तं त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ ।
नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा॑न्दे॒वाँ आ प॑वस्वा सहस्रजित् ॥

05 तं त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा॑ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ ।
इन्द्रं॑ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥