०७८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र राजा वाचम्’ इति पञ्चर्चमेकादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र राजा’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

78 (790)
Soma Pavamāna
Kavi Bhārgava
5 verses: jagatī
A fairly straightforward hymn. The first three verses treat the preparation of the soma: after being swollen with water it is sent forth into the filter, which captures the plant detritus, on its way to the milk mixture (vs. 1); it goes across the filter and into the cup (vs. 2); and it is mixed with waters, here unusually personified as the nymph-like females, the Apsarases (vs. 3). The last two verses list the benefits that will accrue to us when the gods drink the soma.

Jamison Brereton Notes

A remarkably straightforward hymn. Oberlies tr. it in Relig. RV II.125.

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

01 प्र राजा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ रा᳓जा वा᳓चं जन᳓यन्न् असिष्यदद्
अपो᳓ व᳓सानो अभि᳓ गा᳓ इयक्षति
गृभ्णा᳓ति रिप्र᳓म् अ᳓विर् अस्य ता᳓नुवा
शुद्धो᳓ देवा᳓नाम् उ᳓प याति निष्कृत᳓म्

02 इन्द्राय सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राय सोम प᳓रि षिच्यसे नृ᳓भिर्
नृच᳓क्षा ऊर्मिः᳓ कवि᳓र् अज्यसे व᳓ने
पूर्वी᳓र् हि᳓ ते स्रुत᳓यः स᳓न्ति या᳓तवे
सह᳓स्रम् अ᳓श्वा ह᳓रयश् चमूष᳓दः

03 समुद्रिया अप्सरसो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रि᳓या अप्सर᳓सो मनीषि᳓णम्
आ᳓सीना अन्त᳓र् अभि᳓ सो᳓मम् अक्षरन्
ता᳓ ईं हिन्वन्ति हर्मिय᳓स्य सक्ष᳓णिं
या᳓चन्ते सुम्न᳓म् प᳓वमानम् अ᳓क्षितम्

04 गोजिन्नः सोमो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

गोजि᳓न् नः सो᳓मो रथजि᳓द् धिरण्यजि᳓त्
सुवर्जि᳓द् अब्जि᳓त् पवते सहस्रजि᳓त्
यं᳓ देवा᳓सश् चक्रिरे᳓ पीत᳓ये म᳓दं
स्वा᳓दिष्ठं द्रप्स᳓म् अरुण᳓म् मयोभु᳓वम्

05 एतानि सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓नि सोम प᳓वमानो अस्मयुः᳓
सत्या᳓नि कृण्व᳓न् द्र᳓विणानि अर्षसि
जहि᳓ श᳓त्रुम् अन्तिके᳓ दूरके᳓ च य᳓
उर्वीं᳓ ग᳓व्यूतिम् अ᳓भयं च नस् कृधि