०७६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्यायाव्याहतप्रज्ञः सप्तमस्य द्वितीयकम् ।

अध्यायं सायणामात्यस्तृतीयं व्याकरोत्यथ ॥

तत्र ‘ धर्ता ’ इति पञ्चर्चं नवमं सूक्तं भार्गवस्य कवेरार्षं जागतं पवमानसोमदेवताकम् । ‘धर्ता’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

76 (788)
Soma Pavamāna
Kavi Bhārgava
5 verses: jagatī
This portrait of Soma militant resembles the martial spirit of another of Kavi Bhārgava’s hymns, IX.47. The dense series of combative images also track Soma’s journey through the purificatory procedure, and his warlike power is to be har nessed for our own ends in the final verse (5). But Soma is not merely a warrior; he is also a master of verbal art, who triumphs in poetic competitions (vs. 4). A short but very satisfying poem.

Jamison Brereton Notes

As noted in the published introduction, the martial tone is reminiscent of that of another of Kavi Bhārgava’s productions, IX.47, though there is little or no overlap in phraseology.

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

01 धर्ता दिवः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

धर्ता᳓ दिवः᳓ पवते कृ᳓त्वियो र᳓सो
द᳓क्षो देवा᳓नाम् अनुमा᳓दियो नृ᳓भिः
ह᳓रिः सृजानो᳓ अ᳓तियो न᳓ स᳓त्वभिर्
वृ᳓था पा᳓जांसि कृणुते नदी᳓षु आ᳓

02 शूरो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

शू᳓रो न᳓ धत्त आ᳓युधा ग᳓भस्तियोः
सु᳓वः सि᳓षासन् रथिरो᳓ ग᳓विष्टिषु
इ᳓न्द्रस्य शु᳓ष्मम् ईर᳓यन्न् अपस्यु᳓भिर्
इ᳓न्दुर् हिन्वानो᳓ अज्यते मनीषि᳓भिः

03 इन्द्रस्य सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस्य सोम प᳓वमान ऊर्मि᳓णा
तविष्य᳓माणो जठ᳓रेषु आ᳓ विश
प्र᳓ णः पिन्व विद्यु᳓द् अभ्रे᳓व रो᳓दसी
धिया᳓ न᳓ वा᳓जाँ उ᳓प मासि श᳓श्वतः

04 विश्वस्य राजा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वस्य रा᳓जा पवते सुवर्दृ᳓श
ऋत᳓स्य धीति᳓म् ऋषिषा᳓ळ् अवीवशत्
यः᳓ सू᳓रियस्य अ᳓सिरेण मृज्य᳓ते
पिता᳓ मतीना᳓म् अ᳓समष्टकावियः

05 वृषेव यूथा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षेव यूथा᳓ प᳓रि को᳓शम् अर्षसि
अपा᳓म् उप᳓स्थे वृषभः᳓ क᳓निक्रदत्
स᳓ इ᳓न्द्राय पवसे मत्सरि᳓न्तमो
य᳓था जे᳓षाम समिथे᳓ तुवो᳓तयः