०६४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘वृषा सोम’ इति त्रिंशदृचं चतुर्थं सूक्तं मारीचस्य कश्यपस्यार्षं गायत्रं पवमानसौम्यम् । तथा चानुक्रान्तं- वृषा सोम कश्यपः’ इति । उक्तो विनियोगः ।।

Jamison Brereton

64 (776)
Soma Pavamāna
Kaśyapa Mārīca
30 verses: gāyatrī, arranged in trcas ̥
The hymn begins with an insistent tr̥ca establishing Soma as a bull. What follows is for the most part a conventional treatment of the purification process, with special emphasis on his entry into “the sea” (that is, the purificatory waters, vss. 8, 16, 17, 19, 27). The association with the Sun found in the preceding hymn is also present here, with Soma not merely yoking the Sun’s horse, Etaśa, but identified with him (vs. 19) and with the Sun himself in the final words of the hymn (vs. 30; see also vss. 7, 9). Soma’s light and brilliance are also mentioned throughout (vss. 1, 8, 13, 15, 28).

Jamison Brereton Notes

61-67 ...{Loading}...

Jamison Brereton Notes

On the place of these long hymns in the structure of the maṇḍala, see published introduction. to IX.61. All of these hymns consist of collections of tṛcas of varying degrees of cohesion. In fact, it is surprising how few tṛcas display a real attempt at thematic or lexical unity, and what they do show is often simply the byproduct of the fact that both the lexicon and thematic preoccupations of Maṇḍala IX are comparatively limited and so similar words and themes are not unlikely to show up in adjacent verses. This lack of unity contrasts, I think (this is my unsystematic and anecdotal impression) with collections of tṛcas in other maṇḍalas, notably VIII.

01 वृषा सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा सोम द्युमाँ᳓ असि
वृ᳓षा देव वृ᳓षव्रतः
वृ᳓षा ध᳓र्माणि दधिषे

02 वृष्णस्ते वृष्ण्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓ष्णस् ते वृ᳓ष्णियं श᳓वो
वृ᳓षा व᳓नं वृ᳓षा म᳓दः
सत्यं᳓ वृषन् वृ᳓षे᳓द् असि

03 अश्वो न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वो न᳓ चक्रदो वृ᳓षा
सं᳓ गा᳓ इन्दो स᳓म् अ᳓र्वतः
वि᳓ नो राये᳓ दु᳓रो वृधि

04 असृक्षत प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सृक्षत प्र᳓ वाजि᳓नो
गव्या᳓ सो᳓मासो अश्वया᳓
शुक्रा᳓सो वीरया᳓श᳓वः

05 शुम्भमाना ऋतायुभिमृड़्ज्यमाना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शुम्भ᳓माना ऋतायु᳓भिर्
मृज्य᳓माना ग᳓भस्तियोः
प᳓वन्ते वा᳓रे अव्य᳓ये

06 ते विश्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ वि᳓श्वा दाशु᳓षे व᳓सु
सो᳓मा दिव्या᳓नि पा᳓र्थिवा
प᳓वन्ताम् आ᳓न्त᳓रिक्षिया

07 पवमानस्य विश्ववित्प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वमानस्य विश्ववित्
प्र᳓ ते स᳓र्गा असृक्षत
सू᳓र्यस्येव न᳓ रश्म᳓यः

08 केतुं कृण्वन्दिवस्परि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

केतुं᳓ कृण्व᳓न् दिव᳓स् प᳓रि
वि᳓श्वा रूपा᳓भि᳓ अर्षसि
समुद्रः᳓ सोम पिन्वसे

09 हिन्वानो वाचमिष्यसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हिन्वानो᳓ वा᳓चम् इष्यसि
प᳓वमान वि᳓धर्मणि
अ᳓क्रान् देवो᳓ न᳓ सू᳓रियः

10 इन्दुः पविष्थ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दुः पविष्ट चे᳓तनः
प्रियः᳓ कवीना᳐᳓म् मती᳓
सृज᳓द् अ᳓श्वं रथी᳓र् इव

11 ऊर्मिर्यस्ते पवित्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्मि᳓र् य᳓स् ते पवि᳓त्र आ᳓
देवावीः᳓ परिअ᳓क्षरत्
सी᳓दन्न् ऋत᳓स्य यो᳓निम् आ᳓

12 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो अर्ष पवि᳓त्र आ᳓
म᳓दो यो᳓ देववी᳓तमः
इ᳓न्दव् इ᳓न्द्राय पीत᳓ये

13 इषे पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इषे᳓ पवस्व धा᳓रया
मृज्य᳓मानो मनीषि᳓भिः
इ᳓न्दो रुचा᳓भि᳓ गा᳓ इहि

14 पुनानो वरिवस्कृध्यूर्जम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुनानो᳓ व᳓रिवस् कृधि
ऊ᳓र्जं ज᳓नाय गिर्वणः
ह᳓रे सृजान᳓ आशि᳓रम्

15 पुनानो देववीतय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुनानो᳓ देव᳓वीतय
इ᳓न्द्रस्य याहि निष्कृत᳓म्
द्युतानो᳓ वाजि᳓भिर् यतः᳓

16 प्र हिन्वानास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ हिन्वाना᳓स इ᳓न्दवो
अ᳓छा समुद्र᳓म् आश᳓वः
धिया᳓ जूता᳓ असृक्षत

17 ममृड़्जानास आयवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मर्मृजाना᳓स आय᳓वो
वृ᳓था समुद्र᳓म् इ᳓न्दवः
अ᳓ग्मन्न् ऋत᳓स्य यो᳓निम् आ᳓

18 परि णो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि णो याहि अस्मयु᳓र्
वि᳓श्वा व᳓सूनि ओ᳓जसा
पाहि᳓ नः श᳓र्म वीर᳓वत्

19 मिमाति वह्निरेतशः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मि᳓माति व᳓ह्निर् ए᳓तशः
पदं᳓ युजान᳓ ऋ᳓क्वभिः
प्र᳓ य᳓त् समुद्र᳓ आ᳓हितः

20 आ यद्योनिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓द् यो᳓निं हिरण्य᳓यम्
आशु᳓र् ऋत᳓स्य सी᳓दति
ज᳓हाति अ᳓प्रचेतसः

21 अभि वेना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ वेना᳓ अनूषत
इ᳓यक्षन्ति प्र᳓चेतसः
म᳓ज्जन्ति अ᳓विचेतसः

22 इन्द्रायेन्दो मरुत्वते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रायेन्दो मरु᳓त्वते
प᳓वस्व म᳓धुमत्तमः
ऋत᳓स्य यो᳓निम् आस᳓दम्

23 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा वि᳓प्रा वचोवि᳓दः
प᳓रि ष्कृण्वन्ति+ वेध᳓सः
सं᳓ त्वा मृजन्ति आय᳓वः

24 रसं ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓सं ते मित्रो᳓ अर्यमा᳓
पि᳓बन्ति व᳓रुणः कवे
प᳓वमानस्य मरु᳓तः

25 त्वं सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ सोम विपश्चि᳓तम्
पुनानो᳓ वा᳓चम् इष्यसि
इ᳓न्दो सह᳓स्रभर्णसम्

26 उतो सहस्रभर्णसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उतो᳓ सह᳓स्रभर्णसं
वा᳓चं सोम मखस्यु᳓वम्
पुनान᳓ इन्दव् आ᳓ भर

27 पुनान इन्दवेषाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुनान᳓ इन्दव् एषा᳐म्
पु᳓रुहूत ज᳓नाना᳐म्
प्रियः᳓ समुद्र᳓म् आ᳓ विश

28 दविद्युतत्या रुचा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓विद्युततिया रुचा᳓
परिष्टो᳓भन्तिया कृपा᳓
सो᳓माः शुक्रा᳓ ग᳓वाशिरः

29 हिन्वानो हेतृभिर्यत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हिन्वानो᳓ हेतृ᳓भिर् यत᳓
आ᳓ वा᳓जं वाजी᳓ अक्रमीत्
सी᳓दन्तो वनु᳓षो यथा

30 ऋधक्सोम स्वस्तये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋध᳓क् सोम सुअस्त᳓ये
संजग्मानो᳓ दिवः᳓ कविः᳓
प᳓वस्व सू᳓रियो दृशे᳓