०६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘एते असृग्रम्’ इति त्रिंशदृचं द्वितीयं सूक्तं भार्गवस्य जमदग्नेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम्– एते असृग्रं जमदग्निः’ इति । गतो विनियोगः ॥

Jamison Brereton

62 (774)
Soma Pavamāna
Jamadagni Bhārgava
30 verses: gāyatrī, arranged in trcas ̥
Though long, this hymn remains focused on the familiar details of the preparation of the soma, often ennobled by establishing cosmic parallels. The journey across1284 IX.62
the fleece is especially prominent, and the soma is frequently likened to a fast horse. One verse, 17, is more specific than the usual generic treatments: here the soma is a horse yoked to the chariot of the sacrifice, which has three backs and three seats, presumably the three pressings and the three fires, by the visionary thoughts of the seven seers. It is also notable how often Soma is called a poet or connected with poetry in the second part of this hymn (vss. 13, 14, 25, 26, 27, 30). In the final verse he is in fact called “the entruthed poet” or “the poet (who is) truth (itself),” a power
ful expression of his relationship to creative speech.
Though some of the tr̥cas display internal formal unity (e.g., vss. 19–21 begin ning with ā́), most do not. The poet to whom the hymn is attributed names himself in verse 24.

Jamison Brereton Notes

61-67 ...{Loading}...

Jamison Brereton Notes

On the place of these long hymns in the structure of the maṇḍala, see published introduction. to IX.61. All of these hymns consist of collections of tṛcas of varying degrees of cohesion. In fact, it is surprising how few tṛcas display a real attempt at thematic or lexical unity, and what they do show is often simply the byproduct of the fact that both the lexicon and thematic preoccupations of Maṇḍala IX are comparatively limited and so similar words and themes are not unlikely to show up in adjacent verses. This lack of unity contrasts, I think (this is my unsystematic and anecdotal impression) with collections of tṛcas in other maṇḍalas, notably VIII.

01 एते असृग्रमिन्दवस्तिरः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एते᳓ असृग्रम् इ᳓न्दवस्
तिरः᳓ पवि᳓त्रम् आश᳓वः
वि᳓श्वानि अभि᳓ सउ᳓भगा

02 विघ्नन्तो दुरिता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विघ्न᳓न्तो दुरिता᳓ पुरु᳓
सुगा᳓ तोका᳓य वाजि᳓नः
त᳓ना कृण्व᳓न्तो अ᳓र्वते

03 कृण्वन्तो वरिवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कृण्व᳓न्तो व᳓रिवो ग᳓वे
अभि᳓ अर्षन्ति सुष्टुति᳓म्
इ᳓ळाम् अस्म᳓भ्य° संय᳓तम्

04 असाव्यंशुर्मदायाप्सु दक्षो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सावि अंशु᳓र् म᳓दाय
अप्सु᳓ द᳓क्षो गिरिष्ठाः᳐᳓
श्येनो᳓ न᳓ यो᳓निम् आ᳓सदत्

05 शुभ्रमन्धो देववातमप्सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शुभ्र᳓म् अ᳓न्धो देव᳓वातम्
अप्सु᳓ धूतो᳓ नृ᳓भिः सुतः᳓
स्व᳓दन्ति गा᳓वः प᳓योभिः

06 आदीमश्वं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓द् ईम् अ᳓श्वं न᳓ हे᳓तारो
अ᳓शूशुभन्न् अमृ᳓ताय
म᳓ध्वो र᳓सं सधमा᳓दे

07 यास्ते धारा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓स् ते धा᳓रा मधुश्चु᳓तो
अ᳓सृग्रम् इन्द ऊत᳓ये
ता᳓भिः पवि᳓त्रम् आ᳓सदः

08 सो अर्षेन्द्राय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓ अर्षे᳓न्द्राय पीत᳓ये
तिरो᳓ रो᳓माणि अव्य᳓या
सी᳓दन् यो᳓ना व᳓नेषु आ᳓

09 त्वमिन्दो परि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इन्दो प᳓रि स्रव
स्वा᳓दिष्ठो अ᳓ङ्गिरोभियः
वरिवोवि᳓द् घृत᳓म् प᳓यः

10 अयं विचर्षणिर्हितः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ वि᳓चर्षणिर् हितः᳓
प᳓वमानः स᳓ चेतति
हिन्वान᳓ आ᳓पियम् बृह᳓त्

11 एष वृषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ वृ᳓षा वृ᳓षव्रतः
प᳓वमानो अशस्तिहा᳓
क᳓रद् व᳓सूनि दाशु᳓षे

12 आ पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पवस्व सहस्रि᳓णं
रयिं᳓ गो᳓मन्तम् अश्वि᳓नम्
पुरुश्चन्द्र᳓म् पुरुस्पृ᳓हम्

13 एष स्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ स्य᳓ प᳓रि षिच्यते
मर्मृज्य᳓मान आयु᳓भिः
उरुगायः᳓ कवि᳓क्रतुः

14 सहस्रोतिः शतामघो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सह᳓स्रोतिः शता᳓मघो
विमा᳓नो र᳓जसः कविः᳓
इ᳓न्द्राय पवते म᳓दः

15 गिरा जात - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गिरा᳓ जात᳓ इह᳓ स्तुत᳓
इ᳓न्दुर् इ᳓न्द्राय धीयते
वि᳓र् यो᳓ना वसता᳓व् इव

16 पवमानः सुतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वमानः सुतो᳓ नृ᳓भिः
सो᳓मो वा᳓जम् इवासरत्
चमू᳓षु श᳓क्मनास᳓दम्

17 तं त्रिपृष्टे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्रिपृष्ठे᳓ त्रिवन्धुरे᳓
र᳓थे युञ्जन्ति या᳓तवे
ऋ᳓षीणां सप्त᳓ धीति᳓भिः

18 तं सोतारो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ सोतारो धनस्पृ᳓तम्
आशुं᳓ वा᳓जाय या᳓तवे
ह᳓रिं हिनोत वाजि᳓नम्

19 आविशन्कलशं सुतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आविश᳓न् कल᳓शं सुतो᳓
वि᳓श्वा अ᳓र्षन्न् अभि᳓ श्रि᳓यः
शू᳓रो न᳓ गो᳓षु तिष्ठति

20 आ त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त इन्दो म᳓दाय क᳓म्
प᳓यो दुहन्ति आय᳓वः
देवा᳓ देवे᳓भियो म᳓धु

21 आ नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नः सो᳓मम् पवि᳓त्र आ᳓
सृज᳓ता म᳓धुमत्तमम्
देवे᳓भ्यो देवश्रु᳓त्तमम्

22 एते सोमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एते᳓ सो᳓मा असृक्षत
गृणानाः᳓ श्र᳓वसे महे᳓
मदि᳓न्तमस्य धा᳓रया

23 अभि गव्यानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ ग᳓व्यानि वीत᳓ये
नृम्णा᳓ पुनानो᳓ अर्षसि
सन᳓द्वाजः प᳓रि स्रव

24 उत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नो गो᳓मतीर् इ᳓षो
वि᳓श्वा अर्ष परिष्टु᳓भः
गृणानो᳓ जम᳓दग्निना

25 पवस्व वाचो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्व वाचो᳓ अग्रियः᳓
सो᳓म चित्रा᳓भिर् ऊति᳓भिः
अभि᳓ वि᳓श्वानि का᳓विया

26 त्वं समुद्रिया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ समुद्रि᳓या अपो᳓
अग्रियो᳓ वा᳓च ईर᳓यन्
प᳓वस्व विश्वमेजय

27 तुभ्येमा भुवना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्येमा᳓ भु᳓वना कवे
महिम्ने᳓ सोम तस्थिरे
तु᳓भ्यम् अर्षन्ति सि᳓न्धवः

28 प्र ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ते दिवो᳓ न᳓ वृष्ट᳓यो
धा᳓रा यन्ति असश्च᳓तः
अभि᳓ शुक्रा᳓म् उपस्ति᳓रम्

29 इन्द्रायेन्दुं पुनीतनोग्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्राये᳓न्दुम् पुनीतन
उग्रं᳓ द᳓क्षाय सा᳓धनम्
ईशानं᳓ वीति᳓राधसम्

30 पवमान ऋतः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वमान ऋतः᳓ कविः᳓
सो᳓मः पवि᳓त्रम् आ᳓सदत्
द᳓धत् स्तोत्रे᳓ सुवी᳓रियम्