०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अध्वर्यो ’ इति पञ्चर्चं सप्तविंशं सूक्तमाङ्गिरसस्योचथ्यस्यार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रम्यते-’ अध्वर्यो ’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

51 (763)
Soma Pavamāna
Ucathya Āṅgirasa
5 verses: gāyatrī
This simple hymn sets Soma in relation both to the humans involved in his prepa ration, namely the Adhvaryu priest (vs. 1) and the praiser (vs. 4), and to the gods who consume him, Indra (vss. 1–2), the gods in general, and the Maruts (vs. 3). The entry into the filter, mentioned in verses 1 and 5, provides an elementary ring.

01 अध्वर्यो अद्रिभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यो अ᳓द्रिभिः सुतं᳓
सो᳓मम् पवि᳓त्र आ᳓ सृज
पुनीही᳓न्द्राय पा᳓तवे

02 दिवः पीयूषमुत्तमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दिवः᳓ पीयू᳓षम् उत्तमं᳓
सो᳓मम् इ᳓न्द्राय वज्रि᳓णे
सुनो᳓ता म᳓धुमत्तमम्

03 तव त्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व त्य᳓ इन्दो अ᳓न्धसो
देवा᳓ म᳓धोर् वि᳓ अश्नते
प᳓वमानस्य मरु᳓तः

04 त्वं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ सोम वर्ध᳓यन्
सुतो᳓ म᳓दाय भू᳓र्णये
वृ᳓षन् स्तोता᳓रम् ऊत᳓ये

05 अभ्यर्ष विचक्षण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ अर्ष विचक्षण
पवि᳓त्रं धा᳓रया सुतः᳓
अभि᳓ वा᳓जम् उत᳓ श्र᳓वः