०५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘उत्ते’ इति पञ्चर्चं षड्विंशं सूक्तमाङ्गिरसस्योचथ्यस्यार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम्—’ उत्ते शुष्मास उचथ्यः’ इति । उक्तो विनियोगः ॥

Jamison Brereton

50 (762)
Soma Pavamāna
Ucathya Āṅgirasa
5 verses: gāyatrī
The next three hymns (IX.50–52) are attributed to the same poet, who is not otherwise found in the R̥gveda. This hymn has a distinct focus on sound, that of Soma as he is being prepared (vs. 1), of (probably) the officiating priests (vs. 3), and of the ritual chant (vs. 4). A potential pun in verse 2 suggests that the priestly voices there are both competing with each other and seeking the sacrificial reward. Verse 5 contains another potential pun, with the same word (aktú) meaning both “ointments” and “nights.”

01 उत्ते शुष्मास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓त् ते शु᳓ष्मास ईरते
सि᳓न्धोर् ऊर्मे᳓र् इव स्वनः᳓
वाण᳓स्य चोदया पवि᳓म्

02 प्रसवे त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रसवे᳓ त उ᳓द् ईरते
तिस्रो᳓ वा᳓चो मखस्यु᳓वः
य᳓द् अ᳓व्य ए᳓षि सा᳓नवि

03 अव्यो वारे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व्यो वा᳓रे प᳓रि प्रियं᳓
ह᳓रिं हिन्वन्ति अ᳓द्रिभिः
प᳓वमानम् मधुश्चु᳓तम्

04 आ पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पवस्व मदिन्तम
पवि᳓त्रं धा᳓रया कवे
अर्क᳓स्य यो᳓निम् आस᳓दम्

05 स पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ पवस्व मदिन्तम
गो᳓भिर् अञ्जानो᳓ अक्तु᳓भिः
इ᳓न्दव् इ᳓न्द्राय पीत᳓ये