०४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अया सोमः’ इति पञ्चर्चं त्रयोविंशं सूक्तं भृगुपुत्रस्य कवेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम् – ‘अया सोमः पञ्च कविर्भार्गवः’ इति । उक्तो विनियोगः ॥

Jamison Brereton

47 (759)
Soma Pavamāna
Kavi Bhārgava
5 verses: gāyatrī
The next three hymns (IX.47–49) are attributed to Kavi Bhārgava, to whom the Anukramaṇī also credits the five Jagatī hymns IX.75–79. The Soma of this hymn is distinctly militant, using the power he has acquired (vs. 1) to destroy the Dasyus (vs. 2) and win spoils, as Indra’s very mace (vss. 3, 5). But the same Soma is both a poet (vs. 4) and a recipient of poetry (vs. 3), who facilitates the human poet’s acquisition of treasure from his patron (vs. 4).

01 अया सोमः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अया᳓ सो᳓मः सुकृत्य᳓या
मह᳓श् चिद् अभ्य् अ᳡वर्धत
मन्दान᳓ उ᳓द् वृषायते

02 कृतानीदस्य कर्त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कृता᳓नी᳓द् अस्य क᳓र्तुवा
चे᳓तन्ते दस्युत᳓र्हणा
ऋणा᳓ च धृष्णु᳓श् चयते

03 आत्सोम इन्द्रियो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓त् सो᳓म इन्द्रियो᳓ र᳓सो
व᳓ज्रः सहस्रसा᳓ भुवत्
उक्थं᳓ य᳓द् अस्य जा᳓यते

04 स्वयं कविर्विधर्तरि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्वयं᳓ कवि᳓र् विधर्त᳓रि
वि᳓प्राय र᳓त्नम् इछति
य᳓दी मर्मृज्य᳓ते धि᳓यः

05 सिषासतू रयीणाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सिषास᳓तू रयीणां᳐᳓
वा᳓जेषु अ᳓र्वताम् इव
भ᳓रेषु जिग्यु᳓षाम् असि