०४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ सप्तमाष्टकस्य प्रथमाध्याय आरभ्यते । ‘प्र णः’ इति षडृचं विंशं सूक्तमाङ्गिरसस्यायास्यस्यार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- प्र णोऽयास्यः’ इति । गतो विनियोगः ॥

Jamison Brereton

44 (756)
Soma Pavamāna
Ayāsya Āṅgirasa
6 verses: gāyatrī
The poet of the next three hymns (IX.44–46) seems to owe his Anukramaṇī identifi cation to the word ayā́sya “irrepressible” in the first verse of this first hymn, where it is applied to Soma. Insofar as there is a theme in this hymn, it is Soma’s relation to the gods (vss. 1, 3, 5) and his intermediary role between the gods and us, especially us poets (vss. 2, 5).

01 प्र ण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ण इन्दो महे᳓ त᳓न
ऊर्मिं᳓ न᳓ बि᳓भ्रद् अर्षसि
अभि᳓ देवाँ᳓ अया᳓सियः

02 मती जुष्थो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मती᳓ जुष्टो᳓ धिया᳓ हितः᳓
सो᳓मो हिन्वे पराव᳓ति
वि᳓प्रस्य धा᳓रया कविः᳓

03 अयं देवेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ देवे᳓षु जा᳓गृविः
सुत᳓ एति पवि᳓त्र आ᳓
सो᳓मो याति वि᳓चर्षणिः

04 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नः पवस्व वाजयु᳓श्
चक्राण᳓श् चा᳓रुम् अध्वर᳓म्
बर्हि᳓ष्माँ आ᳓ विवासति

05 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो भ᳓गाय वाय᳓वे
वि᳓प्रवीरः सदा᳓वृधः
सो᳓मो देवे᳓षु आ᳓ यमत्

06 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो अद्य᳓ व᳓सुत्तये
क्रतुवि᳓द् गातुवि᳓त्तमः
वा᳓जं जेषि श्र᳓वो बृह᳓त्