०४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

यो अत्यइव’ इति षडृचमेकोनविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “यो अत्यइव’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

43 (755)
Soma Pavamāna
Medhyātithi Kāṇva
6 verses: gāyatrī
In this last hymn attributed to Medhyātithi, he is at particular pains to draw atten tion to the importance of the poet’s role in the preparation of the soma. Not only does he name himself in verse 3, but the first three verses emphasize the clothing (vs. 1), beautification (vs. 2), and adornment (vs. 3) of Soma with hymns. In the final verse (6) he asks for a proper recompense for the poet (that is, himself) who produces these hymns.

01 यो अत्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।
तं गी॒र्भिर्वा॑सयामसि ॥

02 तं नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा॑ ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥

03 पुनानो याति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।
विप्र॑स्य॒ मेध्या॑तिथेः ॥

04 पवमान विदा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् ।
इन्दो॑ स॒हस्र॑वर्चसम् ॥

05 इन्दुरत्यो न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ ।
यदक्षा॒रति॑ देव॒युः ॥

06 पवस्व वाजसातये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।
सोम॒ रास्व॑ सु॒वीर्य॑म् ॥