०४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘जनयन्’ इति षडृचमष्टादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘जनयन्’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

42 (754)
Soma Pavamāna
Medhyātithi Kāṇva
6 verses: gāyatrī
The double affiliation of Soma with the ritual and cosmic realms leads off the hymn: in verse 1 he performs major cosmogonic deeds while participating in his ritual preparation, mixing with milk and being washed in water. This twofold theme continues through the hymn, as, for example, in verse 4 where Soma begets the gods while being poured in the filter. The hymn ends (vs. 6) with a wish for the same material benefits found in the preceding hymn, IX.41.4.

01 जनयन्रोचना दिवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जन᳓यन् रोचना᳓ दिवो᳓
जन᳓यन्न् अप्सु᳓ सू᳓रियम्
व᳓सानो गा᳓ अपो᳓ ह᳓रिः

02 एष प्रत्नेन - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ प्रत्ने᳓न म᳓न्मना
देवो᳓ देवे᳓भियस् प᳓रि
धा᳓रया पवते सुतः᳓

03 वावृधानाय तूर्वये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वावृधाना᳓य तू᳓र्वये
प᳓वन्ते वा᳓जसातये
सो᳓माः सह᳓स्रपाजसः

04 दुहानः प्रत्नमित्पयः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दुहानः᳓ प्रत्न᳓म् इ᳓त् प᳓यः
पवि᳓त्रे प᳓रि षिच्यते
क्र᳓न्दन् देवाँ᳓ अजीजनत्

05 अभि विश्वानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ वि᳓श्वानि वा᳓रिया
अभि᳓ देवाँ᳓ ऋतावृ᳓धः
सो᳓मः पुनानो᳓ अर्षति

06 गोमन्नः सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गो᳓मन् नः सोम वीर᳓वद्
अ᳓श्वावद् वा᳓जवत् सुतः᳓
प᳓वस्व बृहती᳓र् इ᳓षः