०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ नः’ इति षडृचमेकादशं सूक्तमाङ्गिरसस्य प्रभूवसोरार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च-’ आ नः पवस्व प्रभूवसुः’ इति । गतो विनियोगः ॥

Jamison Brereton

35 (747)
Soma Pavamāna
Prabhūvasu Āṅgirasa
6 verses: gāyatrī
Soma as the source and support of wealth and as ally in conflict is the theme of this hymn, which is characterized by pleasing etymological figures (e.g., vss. 3, 4, 6) and variant repetitions (e.g., vss. 2 + 5).

01 आ नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नः पवस्व धा᳓रया
प᳓वमान रयि᳓म् पृथु᳓म्
य᳓या ज्यो᳓तिर् विदा᳓सि नः

02 इन्दो समुद्रमीङ्खय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्दो समुद्रमीङ्खय
प᳓वस्व विश्वमेजय
रायो᳓ धर्ता᳓ न ओ᳓जसा

03 त्वया वीरेण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या वीरे᳓ण वीरवो
अभि᳓ ष्याम पृतन्यतः᳓
क्ष᳓रा णो अभि᳓ वा᳓रियम्

04 प्र वाजमिन्दुरिष्यति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वा᳓जम् इ᳓न्दुर् इष्यति
सि᳓षासन् वाजसा᳓ ऋ᳓षिः
व्रता᳓ विदान᳓ आ᳓युधा

05 तं गीर्भिर्वाचमीङ्खयम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ गीर्भि᳓र् वाचमीङ्खय᳓म्
पुनानं᳓ वासयामसि
सो᳓मं ज᳓नस्य गो᳓पतिम्

06 विश्वो यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वो य᳓स्य व्रते᳓ ज᳓नो
दाधा᳓र ध᳓र्मणस् प᳓तेः
पुनान᳓स्य प्रभू᳓वसोः