०३३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सोमासः’ इति षडृचं नवमं सूक्तं त्रितस्यार्षं गायत्रं पवमानसोमदेवताकम् । ‘प्र सोमासस्त्रितः ’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

33 (745)
Soma Pavamāna
Trita Āptya
6 verses: gāyatrī
Once again the hymn begins with the soma flowing forth. There is, however, less emphasis on the physical process of purification, and more on the sounds that accompany it: verse 4 introduces three voices, which may be the three types of ritual speech, the r̥c, yajus, and sāman familiar from later śrauta ritual, or may refer to the priestly formulations (5a), the bellowing of the cows (4b), and the roar of the rush
ing soma itself (4c). The theme continues in verse 5, which also highlights “truth,” found in verse 2 as well.
The hymn is bookended by watery references: the simile of the waves of water in verse 1 returns in the final verse (6) as the seas of wealth that soma will produce for us.

01 प्र सोमासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सो᳓मासो विपश्चि᳓तो
अपां᳓ न᳓ यन्ति ऊर्म᳓यः
व᳓नानि महिषा᳓ इव

02 अभि द्रोणानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ द्रो᳓णानि बभ्र᳓वः
शुक्रा᳓ ऋत᳓स्य धा᳓रया
वा᳓जं गो᳓मन्तम् अक्षरन्

03 सुता इन्द्राय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुता᳓ इ᳓न्द्राय वाय᳓वे
व᳓रुणाय मरु᳓द्भियः
सो᳓मा अर्षन्ति वि᳓ष्णवे

04 तिस्रो वाच - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो᳓ वा᳓च उ᳓द् ईरते
गा᳓वो मिमन्ति धेन᳓वः
ह᳓रिर् एति क᳓निक्रदत्

05 अभि ब्रह्मीरनूषत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ ब्र᳓ह्मीर् अनूषत
यह्वी᳓र् ऋत᳓स्य मात᳓रः
मर्मृज्य᳓न्ते दिवः᳓ शि᳓शुम्

06 रायः समुद्राँश्चतुरोऽस्मभ्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रायः᳓ समुद्रां᳓श् चतु᳓रो
अस्म᳓भ्यं सोम विश्व᳓तः
आ᳓ पवस्व सहस्रि᳓णः