०३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सोमासः’ इति षडृचमष्टमं सूक्तमात्रेयस्य श्यावाश्वस्यार्षं गायत्रं सौम्यम् । अनुक्रम्यते च- प्र सोमासः श्यावाश्वः’ इति । गतो विनियोगः ॥

Jamison Brereton

32 (744)
Soma Pavamāna
Śyāvāśva Ātreya
6 verses: gāyatrī
Although this hymn begins with the almost ubiquitous journeying forth of the soma juices (see, e.g., the first verses of IX.10, 17, 20, 24, 29, 30, 31, 33, 34, 41, 44, all beginning, like this, with prá “forth” followed by a verb of motion somewhere in the verse), it breaks the pattern of the recent collections of Soma clichés, especially with the cascade of similes in verses 3–5. This expert handling of the constricted form of gāyatrī soma hymns may lend credence to the Anukramaṇī’s attribution to Śyāvāśva Ātreya, the ingenious poet of the Marut cycle in Maṇḍala V.

01 प्र सोमासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सो᳓मासो मदच्यु᳓तः
श्र᳓वसे नो मघो᳐᳓नः
सुता᳓ विद᳓थे अक्रमुः

02 आदीं त्रितस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓द् ईं त्रित᳓स्य यो᳓षणो
ह᳓रिं हिन्वन्ति अ᳓द्रिभिः
इ᳓न्दुम् इ᳓न्द्राय पीत᳓ये

03 आदीं हंसो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓द् ईं हंसो᳓ य᳓था गणं᳓
वि᳓श्वस्यावीवशन् मति᳓म्
अ᳓त्यो न᳓ गो᳓भिर् अज्यते

04 उभे सोमावचाकशन्मृगो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उभे᳓ सोमावचा᳓कशन्
मृगो᳓ न᳓ तक्तो᳓ अर्षसि
सी᳓दन्न् ऋत᳓स्य यो᳓निम् आ᳓

05 अभि गावो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ गा᳓वो अनूषत
यो᳓षा जार᳓म् इव प्रिय᳓म्
अ᳓गन्न् आजिं᳓ य᳓था हित᳓म्

06 अस्मे धेहि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ धेहि द्युम᳓द् य᳓शो
मघ᳓वद्भ्यश् च म᳓ह्य° च
सनि᳓म् मेधा᳓म् उत᳓ श्र᳓वः