०३१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सोमासः’ इति षडृचं सप्तमं सूक्तं राहूगणस्य गोतमस्यार्षं सौम्यम्। ‘प्र सोमासो गोतमः’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

31 (743)
Soma Pavamāna
Gotama Rāhūgaṇa
6 verses: gāyatrī
Another unremarkable gāyatrī hymn. Parallel constructions and phraseol ogy (e.g., the fronted “for you” [túbhyam] in vss. 3, 5, the fronted “be/become” [bhávā] of vss. 2, 4) give a sense of unity. Unlike many soma hymns, where the finale delivers the soma to Indra (e.g., the final verses of nearby hymns such as IX.23.6–7, 26.6, 27.6, 30.6), here it is “we” who declare our desire for his pres ence and partnership (vs. 6).
The poet, Gotama Rāhūgaṇa, is also the composer of a soma hymn in the first maṇḍala, I.91, and verse 4 in this hymn is identical to I.91.16, which occurs in a triad of ritually connected verses.

01 प्र सोमासः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र सोमा॑सः स्वा॒ध्य१॑ः॒ पव॑मानासो अक्रमुः ।
र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥

02 दिवस्पृथिव्या अधि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः ।
भवा॒ वाजा॑नां॒ पतिः॑ ॥

03 तुभ्यं वाता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ।
सोम॒ वर्ध॑न्ति ते॒ महः॑ ॥

04 आ प्यायस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥

05 तुभ्यं गावो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् ।
वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥

06 स्वायुधस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् ।
इन्दो॑ सखि॒त्वमु॑श्मसि ॥