०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रास्य’ इति षडृचं पञ्चमं सूक्तं नृमेधस्याङ्गिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रम्यते च – प्रास्य नृमेधः’ इति । गतो विनियोगः ॥

Jamison Brereton

29 (741)
Soma Pavamāna
Nr̥medha Āṅgirasa
6 verses: gāyatrī
Another short and conventional hymn, with a focus on winning goods and con quering enemies (esp. vss. 3–5). It is attributed to the same poet as IX.27.

01 प्रास्य धारा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ अस्य धा᳓रा अक्षरन्
वृ᳓ष्णः सुत᳓स्य ओ᳓जसा
देवाँ᳓ अ᳓नु प्रभू᳓षतः

02 सप्तिं मृजन्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓प्तिम् मृजन्ति वेध᳓सो
गृण᳓न्तः कार᳓वो गिरा᳓
ज्यो᳓तिर् जज्ञान᳓म् उक्थि᳓यम्

03 सुषहा सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुष᳓हा सोम ता᳓नि ते
पुनाना᳓य प्रभूवसो
व᳓र्धा समुद्र᳓म् उक्थि᳓यम्

04 विश्वा वसूनि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वा व᳓सूनि संज᳓यन्
प᳓वस्व सोम धा᳓रया
इनु᳓ द्वे᳓षांसि सध्रि᳓अक्

05 रक्षा सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓क्षा सु᳓ नो अ᳓ररुषः
स्वना᳓त् समस्य क᳓स्य चित्
निदो᳓ य᳓त्र मुमुच्म᳓हे

06 एन्दो पार्थिवम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ इन्दो पा᳓र्थिवं रयिं᳓
दिव्य᳓म् पवस्व धा᳓रया
द्युम᳓न्तं शु᳓ष्मम् आ᳓ भर