०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाके षट्त्रिंशत्सूक्तानि । तत्र ‘पवस्व’ इति षडृचं प्रथमं सूक्तं दृळ्हच्युतनाम्नोऽगस्त्यपुत्रस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च-’ पवस्व षड् दृळ्हच्युत आगस्त्यः । इति । गतो विनियोगः ॥

Jamison Brereton

25 (737)
Soma Pavamāna
Drḍ̥ hacyuta Āgastya
6 verses: gāyatrī
This is the only hymn in the R̥gveda attributed to this poet, though his patronymic connects him to Agastya, the poet of a number of hymns in the late Ist Maṇḍala (I.165–91)—including the dialogue hymn I.165, in which Agastya mediates between Indra and the Maruts, who demand a share of the soma sacrifice. This connection may account for the mention of the Maruts in verse 1 as recipients of soma, along with Vāyu: the Maruts are quite scarce in the Soma Maṇḍala.
The hymn is otherwise unremarkable, though one might note the insistent iden tification of Soma as a kaví (“poet,” vss. 3, 5, 6).

01 पवस्व दक्षसाधनो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वस्व दक्षसा᳓धनो
देवे᳓भ्यः पीत᳓ये हरे
मरु᳓द्भ्यो वाय᳓वे म᳓दः

02 पवमान धिया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वमान धिया᳓ हितो᳓
अभि᳓ यो᳓निं क᳓निक्रदत्
ध᳓र्मणा वायु᳓म् आ᳓ विश

03 सं देवैः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ देवइः᳓ शोभते वृ᳓षा
कवि᳓र् यो᳓नाव् अ᳓धि प्रियः᳓
वृत्रहा᳓ देववी᳓तमः

04 विश्वा रूपाण्याविशन्पुनानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वा रूपा᳓णि आविश᳓न्
पुनानो᳓ याति हर्यतः᳓
य᳓त्रामृ᳓तास आ᳓सते

05 अरुषो जनयन्गिरः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अरुषो᳓ जन᳓यन् गि᳓रः
सो᳓मः पवत आयुष᳓क्
इ᳓न्द्रं ग᳓छन् कवि᳓क्रतुः

06 आ पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पवस्व मदिन्तम
पवि᳓त्रं धा᳓रया कवे
अर्क᳓स्य यो᳓निम् आस᳓दम्