०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र निम्नेनेव’ इत्यष्टर्चं सप्तदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र निम्नेनेव’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

17 (729)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
8 verses: gāyatrī
A straightforward hymn: the soma juices flow quickly on their journey through the filter into the vessels and thence to Indra and the gods, a journey compared to that of the sun. The role of speech in the soma sacrifice is also emphasized, with soma both inspiring speech and being strengthened by it.

01 प्र निम्नेनेव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ निम्ने᳓नेव सि᳓न्धवो
घ्न᳓न्तो वृत्रा᳓णि भू᳓र्णयः
सो᳓मा असृग्रम् आश᳓वः

02 अभि सुवानास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ स्वाना᳓स° इ᳓न्दवो
वृष्ट᳓यः पृथिवी᳓म् इव
इ᳓न्द्रं सो᳓मासो अक्षरन्

03 अत्यूर्मिर्मत्सरो मदः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓त्यूर्मिर् मत्सरो᳓ म᳓दः
सो᳓मः पवि᳓त्रे अर्षति
विघ्न᳓न् र᳓क्षांसि देवयुः᳓

04 आ कलशेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ कल᳓शेषु धावति
पवि᳓त्रे प᳓रि षिच्यते
उक्थइ᳓र् यज्ञे᳓षु वर्धते

05 अति त्री - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ति त्री᳓ सोम रोचना᳓
रो᳓हन् न᳓ भ्राजसे दि᳓वम्
इष्ण᳓न् सू᳓र्यं न᳓ चोदयः

06 अभि विप्रा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ वि᳓प्रा अनूषत
मूर्ध᳓न् यज्ञ᳓स्य कार᳓वः
द᳓धानाश् च᳓क्षसि प्रिय᳓म्

07 तमु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् उ त्वा वाजि᳓नं न᳓रो
धीभि᳓र् वि᳓प्रा अवस्य᳓वः
मृज᳓न्ति देव᳓तातये

08 मधोर्धारामनु क्षर - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓धोर् धा᳓राम् अ᳓नु क्षर
तीव्रः᳓ सध᳓स्थम् आ᳓सदः
चा᳓रुर् ऋता᳓य पीत᳓ये