०१५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘एष धिया’ इत्यष्टर्चं पञ्चदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एष धिया’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

15 (727)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
8 verses: gāyatrī
A simple device provides formal unity to this hymn: the form “this one” that begins every verse. In the first six verses it is the nominative subject (eṣá), in the last two (vss. 7–8) the accusative object (etám), so that there is some progression and devel opment, even while the referent remains constant.
Except for verse 2, the focus is entirely on Soma’s journey across the fleece and into the cup, where both the waters (vs. 5) and the milk (vs. 6) await him. (The men tion of grasses in vs. 6 is unclear.)

Jamison Brereton Notes

On the structuring principle of the hymn, see published introduction.

01 एष धिया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ धिया᳓ यात्य् अ᳓ण्विया
शू᳓रो र᳓थेभिर् आशु᳓भिः
ग᳓छन्न् इ᳓न्द्रस्य निष्कृत᳓म्

02 एष पुरू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ पुरू᳓ धियायते
बृहते᳓ देव᳓तातये
य᳓त्रामृ᳓तास आ᳓सते

03 एष हितो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ हितो᳓ वि᳓ नीयते
अन्तः᳓ शुभ्रा᳓वता पथा᳓
य᳓दी तुञ्ज᳓न्ति भू᳓र्णयः

04 एष शृङ्गाणि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ शृ᳓ङ्गाणि दो᳓धुवच्
छि᳓शीते यूथि᳓यो वृ᳓षा
नृम्णा᳓ द᳓धान ओ᳓जसा

05 एष रुक्मिभिरीयते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ रुक्मि᳓भिर् ईयते
वाजी᳓ शुभ्रे᳓भिर् अंशु᳓भिः
प᳓तिः सि᳓न्धूना᳐म् भ᳓वन्

06 एष वसूनि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ व᳓सूनि पिब्दना᳓
प᳓रुषा ययिवाँ᳓ अ᳓ति
अ᳓व शा᳓देषु गछति

07 एतं मृजन्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एत᳓म् मृजन्ति म᳓र्जियम्
उ᳓प द्रो᳓णेषु आय᳓वः
प्रचक्राण᳓म् मही᳓र् इ᳓षः

08 एतमु त्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एत᳓म् उ त्यं᳓ द᳓श क्षि᳓पो
मृज᳓न्ति सप्त᳓ धीत᳓यः
सुआयुध᳓म् मदि᳓न्तमम्