०१३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

षष्ठस्य सप्तमोऽध्यायः संग्रहात्संप्रदर्शितः ।

अथाष्टमः सुमतिना संगमेन प्रदर्श्यते ॥

तत्र सोमः पुनानः’ इति नवचं त्रयोदशं सूक्तम् । असितो देवलो वर्षिः। सोमो देवता । ‘ पवमानगुणः सोमो विज्ञेयः काश्यपावृषी । इति विद्यादनुक्तेऽपि लाघवाया दृळ्हच्युतात् ॥ ‘सोमः इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

13 (725)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
9 verses: gāyatrī
The first verse, with its mention of Vāyu and Indra, identifies this as the first soma offering of the day. Otherwise the hymn is a confection of clichés familiar from many other soma hymns.

Jamison Brereton Notes

This hymn is dominated by forms of med. pávate (vss. 2-4, 8-9), with the first vs. containing instead med. punānáḥ. Only vss. 6-7 lack such forms. Perhaps coincidentally, these two vss. are the only ones containing similes.

The hymn is also constructed from bricolage and ready-made phrases, many found verbatim in other hymns. There is a certain amount of chaining between vss.; it is difficult to know if this is just a result of the assembly process (a word in one vs. suggests to the poet another such phrase, which he then attaches) or was meant as a unifying poetic device.

01 सोमः पुनानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मः पुनानो᳓ अर्षति
सह᳓स्रधारो अ᳓त्यविः
वायो᳓र् इ᳓न्द्रस्य निष्कृत᳓म्

02 पवमानमवस्यवो विप्रमभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वमानम् अवस्यवो
वि᳓प्रम् अभि᳓ प्र᳓ गायत
सुष्वाणं᳓ देव᳓वीतये

03 पवन्ते वाजसातये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वन्ते वा᳓जसातये
सो᳓माः सह᳓स्रपाजसः
गृणाना᳓ देव᳓वीतये

04 उत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नो वा᳓जसातये
प᳓वस्व बृहती᳓र् इ᳓षः
द्युम᳓द् इन्दो सुवी᳓रियम्

05 ते नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ नः सहस्रि᳓णं रयि᳓म्
प᳓वन्ताम् आ᳓ सुवी᳓रियम्
स्वाना᳓° देवा᳓स इ᳓न्दवः

06 अत्या हियाना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓त्या ह्याना᳓° न᳓ हेतृ᳓भिर्
अ᳓सृग्रं वा᳓जसातये
वि᳓ वा᳓रम् अ᳓व्यम् आश᳓वः

07 वाश्रा अर्षन्तीन्दवोऽभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वाश्रा᳓ अर्षन्ति इ᳓न्दवो
अभि᳓ वत्सं᳓ न᳓ धेन᳓वः
दधन्विरे᳓ ग᳓भस्तियोः

08 जुष्थ इन्द्राय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जु᳓ष्ट इ᳓न्द्राय मत्सरः᳓
प᳓वमान क᳓निक्रदत्
वि᳓श्वा अ᳓प द्वि᳓षो जहि

09 अपघ्नन्तो अराव्णः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अपघ्न᳓न्तो अ᳓रावणः
प᳓वमानाः सुवर्दृ᳓शः
यो᳓नाव् ऋत᳓स्य सीदत